________________ आवश्यकनिर्युक्तेरव चूर्णिः दश नियुक्तयः गा. 8486 श्वर्यादिगुणकलापोपेतत्वेन भगवत्वात् श्रुतमपि भगवत् इति श्रुतज्ञानस्य स्वरूपमनेन विशेषणेनाभिधीयत इत्यर्थः, सूत्रार्थयोः परस्परं निर्योजनं-सम्बन्धन नियुक्तिस्तां कीर्तयिष्यामीति योजितमेव // 83 // ननु किमशेषश्रुतज्ञानस्य ?, न, किं तर्हि ?, श्रुतविशेषाणामावश्यकादीनामत आह आवस्सगस्स दसकालिअस्स तह उत्तरज्झमायारे / सूयगडे निजत्तिं वुच्छामि तहा दसाणं च // 84 // कप्पस्स य निजुत्तिं, ववहारस्सेव परमणिउणस्स / सरिअपण्णत्तीए, बुच्छं इसिभासिआणं च // 85 // एतेसिं निजुत्ति, वुच्छामि अहं जिणोवएसेणं / आहरणहेउकारणपयनिवहमिणं समासेणं // 86 // आवश्यकस्य 1 दशवैकालिकस्य 2 तथा उत्तराध्ययन 3 आचारयोः 4, समुदायशब्दानामवयवे वृत्तिदर्शनात् , उतराध्य / इति उत्तराध्ययनमवसेय, अथवा अध्ययनमध्याय इति उत्तराध्यायाचारयोः, 'सूत्रकृते' सूत्रकृताङ्गविषयां नियुक्तिं वक्ष्ये 5, दशानां चेति दशाश्रुतस्कन्धसम्बन्धिनी 6 // 84 // कल्पस्य च नियुक्तिं 7, व्यवहारस्य च परमनिपुणस्य, परमग्रहणं मोक्षाङ्गत्वात् , निपुणग्रहणं तु अव्यंसकत्वात् / न खल्वयं व्यवहारो मन्वादिप्रणीतव्यवहार इव व्यंसको, "सच्चपइन्ना खु ववहारा” इति वचनात् 8, सूर्यप्रज्ञप्तेः 9 वक्ष्ये, ऋषिभाषितानां च देवेन्द्रस्तवादीनां 10, अनेकशो नियुक्तेः क्रियायाश्चाभिधानं ग्रन्थान्तरविषयत्वात् समासव्यासरूपत्वाच्च शास्त्रारम्भस्यादुष्टमेव // 85 // एतेषां-श्रुतविशेषाणां नियुक्तिं वक्ष्याम्यहं जिनोपदेशेन, न तु स्वमनीषिकया, कथम्भूतामित्याह-आहरणहेतुकारणपदनिवहां इमामन्तस्तत्त्वनिष्पन्नां, 'समासेन' सङ्केपेण, तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमाहरणं, दृष्टान्त इति भावः, साध्ये सत्येव भवति साध्याभावे च न भवति एवं साध्यधर्मान्वयव्यतिरेक *********