SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः गणधरादिवन्दनम् गा.८२ // 114 // इति स्मृतः॥१॥' तथा अमराश्च नराश्चामरनरास्तेषां राजानः-इन्द्रचक्रथादयस्तैर्महितस्तं, तीर्थकरं-तीर्थकरणशीलमस्य वर्समानकालावस्थायिनस्तीर्थस्य // 81 // एवं तावदर्थवक्तुर्मङ्गलार्थ वन्दनमुक्तं, इदानीं सूत्रकादीनामपि पूज्यत्वाद्वन्दनमाह इक्कारसवि गणहरे, पवायए पवयणरस वंदामि / सव्वं गणहरवंसं पवयणं च // 82 // एकादशेति सङ्ख्यावाचकः शब्दः, अपिः समुच्चये, अनुत्तरं ज्ञानदर्शनादिधर्मगणं धारयन्तीति गणधरास्तान , प्रकर्षण प्रधाना आदौ वा वाचकाः प्रवाचकास्तान , कस्य ?, प्रवचनस्य-द्वादशाङ्गस्य, वन्दे, एवं तावत् मूलगणधरवन्दनं कृतं, तथा सर्व-निरवशेष गणधरा-आचार्यास्तेषां वंशः-परम्परया प्रवाहस्तं, तथा वाचका-उपाध्यायास्तेषां वंशस्तं, तथा प्रवचनमागमं | च / ननु वंशद्वयस्य प्रवचनस्य कथं वन्द्यता ?, उच्यते, यथा अर्थवक्ता अर्हन्वन्द्यः सूत्रवक्तारश्च गणधराः, एवं यैरिदमर्थसूत्ररूपं प्रवचनमाचार्योपाध्यायैरानीतं तद्वंशोऽप्यानयनद्वारेणोपकारित्वाद्वन्द्य एव, प्रवचनं तु साक्षादेवोपकारित्वाद्वन्धम् // 82 // इदानी प्रकृतमुपदर्शयति ते वंदिऊण सिरसा अत्थपुहुत्तस्स तेहिं कहियस्स / सुयनाणस्स भगवओ, निजत्तिं कित्तइस्सामि // 83 // तान्-अनन्तरोक्रांस्तीर्थकरादीन , वन्दित्वा शिरसा उपलक्षणत्वान्मनःकायाभ्यां च, नियुक्तिं कीर्तयिष्यामि, कस्य श्रुतज्ञानस्य, अर्थपृथक्त्वस्येति, अर्थात्कथञ्चिद्भिन्नत्वात्सूत्रं पृथक उच्यते, प्राकृतत्वाच्च पृथगेव पृथक्त्वं, अर्थस्तु सूत्राभिधेय' प्रतीत एव, अर्थश्च पृथक्त्वं च अर्थपृथक्त्वं तस्य, श्रुतज्ञानविशेषणमेतत् , सूत्रार्थोभयरूपस्येत्यर्थः, अथवा अर्थेन पृथु अर्थपृथु तद्भावोऽर्थपृथुत्वं, श्रुतविशेषणमेव, तैस्तीर्थकरगणधरादिभिः कथितस्य, भगवत इति स्वरूपाभिधानं, कोयः? तद्वतां समग्रै // 114 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy