SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ (RA आवश्यकनियुक्तेरव चूर्णिः // 113 // महावीरवन्दनम् गा.८१ तथा च न तेऽविकलभगवन्तः / तथा परे-शत्रवः क्रोधादयस्तेषामाक्रमः-पराजयस्तदुच्छेद इति यावत् , पराक्रमः, सो अनुत्तरो येषां ते तथा तान् / ननु ये ऐश्वर्यादिभगवन्तस्तेऽनुत्तरपराक्रमा एव, तमन्तरेण विवक्षितभगयोगाभावात् , ततश्चैतदतिरिच्यते, न, अनादिसिद्धैश्वर्यादिसमन्वितपरमपुरुषप्रतिपादनपरनयवादनिराकरणार्थत्वान्न दोषः, अकर्त्तात्मवादव्यवच्छेदार्थ वा / तथा| ऽमितं ज्ञेयानन्तत्वादपरिमितं च तत् ज्ञानं केवलज्ञानं च तदस्ति येषां ते तथा तान् , ननु येऽनुत्तरपराक्रमास्तेऽमितज्ञानिन एव, नियमेन क्रोधादिपरिक्षयोत्तरकालभावित्वादमितज्ञानस्य, उच्यते, सत्यमेतत्किन्तु क्लेशक्षयेऽपि अमितज्ञानानभ्युपगमप्रधाननयवादनिरासार्थत्वादस्योपन्यासः, स्वसिद्धान्तप्रसिद्धछद्मस्थवीतरागव्यवच्छेदार्थ वा, तथा तरन्ति स्म भवार्णवमिति तीर्णास्तान , तीवा॑ च भवौघ, सर्वज्ञत्वात् सर्वदर्शित्वाच्च निरुपमसुखभागिनः, सुगतयः-सिद्धास्तेषां गतिर्मोक्षलक्षणा, तां गतास्तान् , अनेन चावाप्ताणिमाद्यष्टविधैश्वर्यस्वेच्छाविलसनशीलपुरुषतीर्णत्वप्रतिपादनपरनयवादव्यच्छेदमाह / तथा सिद्धेः-पञ्चमगतिरूपायाः पन्थास्तस्य प्रधाना देशकास्तद्धेतुभूतसामायिकादिप्रतिपादकत्वात्प्रदेशकास्तान् // 80 // एवं तावदविशेषेण ऋषभादीनां मङ्गलार्थ वन्दनमुक्तं इदानीमासन्नोपकारित्वाद्वर्द्धमानवन्दनमाह वंदामि महाभागं, महामुणिं महायसं महावीरं / अमरनररायमहियं, तित्थयरमिमस्स तित्थस्स // 81 // 'वंदामी'त्यादि दीपकमशेषोत्तरपदानुयायि द्रष्टव्यं, तत्र भागः-अचिन्त्या शक्तिः, महान् भागो यस्येति महाभागः-महाप्रभावस्तं, मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः सर्वज्ञत्वात् , महांश्चासौ मुनिश्च महामुनिः तं, त्रैलोक्यव्यापित्वान्महद्यशोऽस्येति महायशाः तं, महावीरमित्यभिधानं, अथवा 'विदारयति यत्कर्म तपसा च विराजते। तपोवीर्येण युक्तश्च तस्माद्वीर KKKXEXXEKS
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy