SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव तीर्थकरवन्दनम् चूर्णिः // 112 // 444 द्वारे सूत्रस्पर्शिकनियुक्तौ च प्रपञ्चेन वक्ष्यामः / उक्तो नामनिष्पन्नो निक्षेपः, अधुना सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च प्राप्तावसरोऽपि न निक्षिप्यते, कस्मादिति चेत्, उच्यते, सूत्राभावात् , असति हि सूत्रे कस्याऽऽलापकनिक्षेपः ?, ततोऽस्ति इतस्तृतीयमनुयोगद्वारमनुगमाख्यं, तत्रैव निक्षेप्स्यामः / इदानीमनुगमावसरः, स च द्विधा नियुक्त्यनुगमः सूत्रानुगमश्च / तत्राद्यः त्रिधा-निक्षेपनियुक्त्यनुगम 1 उपोद्घातनियुक्त्य० 2 सूत्रस्पर्शिकनि० 3 च, तत्र निक्षेपनियुक्त्यनुगमो नाम यदधो नामादिन्यासाव्याख्यानमुक्तं ततः सोऽनुगतः एव, इदानीमुपोद्घातनिर्युक्त्यनुगमप्रस्तावः, स चोद्देशादिद्वारलक्षणः, अस्य च महार्थत्वान्मा भूद्विघ्न इति प्रारम्भे अस्य मङ्गलमुच्यते तित्थयरे भगवंते, अणुत्तरपरकमे अमियनाणी / तिण्णे सुगइगइगए, सिद्धिपहपदेसए वंदे / / 80 // तीर्थ कुर्वन्तीत्येवंशीलास्तीर्थकरास्तान् , वन्दे इति क्रिया सर्वत्र योज्या / तत्र तीर्यतेऽनेनेति तीर्थ, तच्च नामादिभेदा| चतुर्द्धा, तत्र नामस्थापने सुगमे, द्रव्यतोऽपि यावन्नोआगमतो ज्ञशरीरभव्यशरीरे, तद्व्यतिरिक्तं तु नद्यादीनामनपायः समो भूभागः, भावतीर्थ द्विधा-आगमतो ज्ञाता उपयुक्तः, नोआगमतो सङ्घः सम्यग्दर्शनादिपरिणामानन्यत्वात् , अथवा 'पङ्कदाहपिपासानामपहारं करोति यत् / तद्धर्मसाधनं तथ्यं तीर्थमित्युच्यते बुधैः॥१॥ पङ्कस्तावत्पापं दाहः कषायाः पिपासा विष- | येच्छा एतेषामपहरणसमर्थ यदित्यर्थः / तथा भगः समग्रैश्वर्यादिलक्षणः, 'उक्तं च-ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य षण्णां भग इतीङ्गना // 1 // ' सोऽस्ति येषां ते भगवन्तस्तान् / ननु तीर्थकरानित्यनेनैव 'भगवत' इत्यस्य गतार्थत्वात्तीर्थकृतामुक्तलक्षणभगाव्यभिचारात्तु नार्थोऽनेनेति, न, नयमतान्तरावलम्बिपरिकल्पितबुद्धादितीर्थकरतिरस्कारपरत्वादस्येति, 前中共中中中心 // 112 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy