________________ आवश्यकनियुक्तेरव ओघनिष्पबादिमेदाः चूर्णिः // 111 // *******EKKEEEEEKKKKR तश्च त्रिविधे प्रमाणेऽन्तर्भवति, नयप्रमाणे तु मूढनयत्वात्तस्य नाधुनावतारः, वक्ष्यति च-'मूढनइअं सुअं कालियं तु' इत्यादि / अथ सङ्ख्याप्रमाणं, तत्र च सङ्ख्या नाम 1 स्थापना 2 द्रव्य 3 क्षेत्र 4 काल 5 औपम्य 6 परिमाण 7 भावभेदात् 8 अष्टधा यथा अनुयोगद्वारेषु तथा वक्तव्या, तत्रोत्कालिकश्रुतपरिमाणसङ्ख्यायां समवतारः, तत्र सूत्रतः सामायिकं परिमितपरिमाणं अर्थतोऽनन्तपर्यायत्वादपरिमितपरिमाणं / अथ वक्तव्यता, सा च त्रिधा, स्वसमयवक्तव्यता 1 परसमयवक्तव्यता 2 उभयसमय व० 3, स्वसमयः-स्वसिद्धान्तः वक्तव्यता-पदार्थविचारः, तत्र स्वसमयवक्तव्यतायामस्य समवतारः, एवं सर्वाण्यध्ययनानि स्वसमयवक्तव्यतायां समवतारणीयानि / एवं परसमयप्रतिपादकानामुभयसमयप्रतिपादकानां चाध्ययनानामपि, यतः सर्वमेव | सम्यग्दृष्टिपरिगृहीतं परसमयसम्बन्ध्यपि सम्यक्श्रुतमेव हेयोपादेयार्थानां सम्यक हेयोपादेयतया परिज्ञानात् / अथार्थाधिकारः, स चाध्ययनसमुदायार्थः, स्वसमयवक्तव्यतैकदेशः, स च सर्वसावद्ययोगविरतिरूपः। अथ समवतारः स च लाघवार्थ प्रतिद्वारं समवतारणाद्वारेण प्रदर्शित एव / उक्त उपक्रमः, इदानीं निक्षेपः, स च त्रिधा, ओघनिष्पन्नः 1 नामनिष्पन्नः 2 सूत्रालापकनिष्पन्नश्च 3, तत्रौषो नाम यत् सामान्यं शास्त्राभिधानं, तच्चेह चतुर्धा, तद्यथा-अध्ययनं 1 अक्षीणं 2 आयः 3 क्षपणा च | 4, पुनरेकैकं नामादिभेदाच्चतुर्दा, नामाध्ययनमित्यादि, तथा नामाक्षीणमित्यादि, तथा नामाय इत्यादि, नामक्षपणेत्यादि च / एतानि च यथानुयोगद्वारेषु तथा प्ररूप्य इदं सामायिकाध्ययनं भावाध्ययने भावाक्षीणे भावाये भावक्षपणायां चायोज्यं, तत्र यस्मादनेन शुभमध्यात्मं जन्यतेऽथवा अध्यात्ममानीयते, अधिकं वा अयनं बोधस्य संयमस्य मोक्षस्य वा इदमित्यध्ययनं, एवं शेषाणामपि निरुक्तयो अभ्यूह्याः। नामनिष्पन्ने निक्षेपे सामायिकमिति विशेषकं नाम, तच्च नामादिभेदाच्चतुर्द्धा, इदं च निरुक्ति REERRRRRREET // 111 //