________________ आवश्यकनिर्युक्तेरव नामप्रमाणे चूर्णिः 122 // 11 // k 132 पृष्ठतश्च स्थापितशेषस्त्रिको दीयत इति चतुर्थोऽयं भङ्गः शश२, एवं पञ्चमषष्ठावप्यभ्यूह्यौ, सर्वेषां चामीषामियं स्थापना-अत्राद्यभङ्गस्य पूर्वानुपूर्वीत्वात् अन्त्यस्य च पश्चानुपूर्वीत्वान्मध्यमा एव चत्वारो भङ्गा अनानुपूर्वीत्वेन मन्तव्याः, एवमनया दिशा चतुः | पञ्चषट्सप्ताष्टादिपदानामपि भङ्गा भावनीयाः / इदानीं नाम वक्तव्यं-प्रतिवस्तु नमनान्नाम, तच्चैकादिदशान्तं यथाऽनु२१३/ | योगद्वारेषु तथा वक्तव्यं, सामायिकस्य षण्नाम्न्यवतारः, तत्र षट् भावाः औदयिकादयो निरूप्यन्ते, तत्र क्षायोपशमिके | एव श्रुताऽवतारस्तस्य क्षायोपशमिकत्वात् , तथा प्रमाणं द्रव्यादि, प्रमीयतेऽनेनेति प्रमाणं, तच्च प्रमेयभेदादेव चतूरूपं, 312 द्रव्यप्रमाणादिभेदात् , तत्र सामायिक भावात्मकत्वात् भावप्रमाणविषयं, तच्च भावप्रमाणं गुण 1 नय 2 सङ्ख्या 3 | 231 भेदात्रिधा, तत्रेदं गुणप्रमाणेऽन्तर्भवति, गुणप्रमाणं द्विधा-जीवगुणप्रमाणमजीवगुणप्रमाणं च, तत्र जीवादपृथग्भूत त्वात्सामायिकस्य जीवगुणप्रमाणे समवतारः, जीवगुणप्रमाणमपि त्रिधा-ज्ञान 1 दर्शन 2 चारित्र 3 भेदात् / तत्र बोधात्मकत्वात्सामायिकस्य ज्ञानगुणप्रमाणे समवतारः, ज्ञानगुणप्रमाणमपि चतुर्दा, तद्यथा प्रत्यक्षं 1 अनुमानं 2 उपमानं 3 आगमश्च | 4, तत्र सामायिकस्य प्रायः परोदेशसव्यपेक्षत्वादागमप्रमाणे समवतारः, आगमोऽपि द्विधा-लौकिक 1 लोकोत्तर 2 भेदात् , तत्रेदं सामायिकं सर्वज्ञप्रणीतत्वाल्लोकोत्तरागमे समवतरति, ननु लोकोत्तरागमोऽपि सूत्र 1 अर्थ 2 उभयरूपत्वात् 3 त्रिविधस्तत इदं क्वान्तर्भवति ?, उच्यते, सामायिकस्य सूत्रार्थोभयरूपत्वात्रिविधेऽपि / ननु सोऽपि त्रिधा-आत्मागमोऽनन्तरागमः परम्परागमश्च, ततः क्वेदं समवतरति ?, उच्यते, इदं सूत्रतो गौतमादीनामात्मागमः, तच्छिष्याणां जम्बूस्वाम्यादीनामनन्तरागमः, प्रशिष्याणां तु प्रभवादीनां परम्परागमः, तथा अर्थतोऽर्हतामात्मागमः, गणधराणामनन्तरा० तच्छिष्याणां पर०, एवं सूत्रतोऽर्थ 321 // 11 //