________________ आनुपूर्वी आवश्यकनियुक्तेरव मेदाः // 108 // ** *****KETKRRER |यिकाध्ययनं, विशेषस्तूत्कीर्तनानुपूर्व्या गणनापूर्व्या च समवतरति, उत्कीर्तनं नाम संशब्दनं यथा सामायिकं चतुर्विंशतिस्तव इत्यादि, गणनं-परिसङ्ख्यानं, एकं द्वे त्रीणि चत्वारीत्यादि, सा च गणनानुपूर्वी त्रिधा-पूर्वानुपूर्वी 1 पश्चानुपूर्वी 2 अनानुपूर्वी च 3, तत्र पूर्वानुपूर्व्या प्रथम, पश्चानुपूर्व्या षष्ठं, अनानुपूर्ध्या त्वनियतं-वचित्प्रथमं वचिद्वितीयमित्यादि, तत्रानानुपूर्वीणामयं करणोपायः-“एगादेगुत्तरगा छगच्छगया परोप्परऽब्भत्था। पुरिमंतिमदुगहीणा परिमाणमणाणुपुब्बीणं // 1 // " (वि. 942) व्याख्या-एकाद्या एकोत्तरका अङ्का व्यवस्थाप्यन्ते, ते चेह षडध्ययनप्रस्तावात् षट्गच्छगताः समवसेयाः, तत्र षण्णां गच्छः-समुदायः षड्गच्छस्तं गतास्तत्प्रतिबद्धाः, ते च एवं परस्पराभ्यस्ताः-परस्परगुणिताः, एकोत्तरकाः षडध्ययनविषयाः षडङ्का व्यवस्थाप्यन्ते, शरा३।४।५।६। एकेन गुणितं तदेव भणितं तदेव भवतीति / एकेन द्विको गुण्यते जातौ द्वौ, द्वाभ्यां त्रिको गुण्यते | जाताः षट् , तैः चत्वारो गुणिता जाताश्चतुर्विंशतिः, तया पञ्च गुण्यन्ते जातं विशं शतं, तेन षड् गुणिता जातानि विंशत्युत्तराणि सप्तशतानि / इहाद्यभङ्गः पूर्वानुपूर्वीरूपः, चरमश्च पश्चानुपूर्वीरूपः, तदपनयने 718 सर्वसङ्ख्ययाऽनानुपूर्वीभङ्गपरिमाणं / तथा इयमनानुपूर्वीभङ्गकानामानयनोपायभूता करणगाथा-"पुव्वाणुपुवि हिट्ठा समयाभेएण कुण जहाजिडें / उवरिमतुल्लं पुरओ निसिज पुव्वक्कमो सेसे // 1 // " व्याख्या-इह विवक्षितपदानां क्रमेण स्थापना पूर्वानुपूर्वी, तस्या अधस्तात् द्वितीयादिभङ्गकान जिज्ञासुः कुरु-स्थापय एकादीनि पदानीति शेषः, कथं ?-ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठं, यो यस्यादौ स तस्य ज्येष्ठः, यथा द्विकस्यैकको ज्येष्ठः, त्रिकस्य त्वेककोऽनुज्येष्ठः, चतुष्कादीनां स एव ज्येष्ठानुज्येष्ठः, एवं त्रिकस्य द्विको ज्येष्ठः, स एव चतुष्कस्यानुज्येष्ठः, पञ्चकादीनां तु स एव ज्येष्ठानुज्येष्ठ इत्यादि / एवं सति उपरितनाङ्कस्याधस्तात् ज्येष्ठो निक्षिप्यते, // 108 //