________________ उपक्रमाः आवश्यकनिर्युक्तेरव चूर्णिः // 107 // फलके उपविष्टस्य शिक्षाकरणं, द्रव्येषु बहुषूपविष्टस्य, तथा क्षेत्रोपक्रमोऽपि द्विधा-परिकर्मणि वस्तुविनाशे च, परिकर्मणि क्षेत्रोपक्रमो नावा समुद्रस्योल्लनं हलादिभिर्वा इक्ष्वादिक्षेत्रस्य परिकर्मणा, वस्तुविनाशे क्षेत्रोपक्रमो गजबन्धनादिभिः क्षेत्रस्य विरूपीकरणं / ननु क्षेत्रममूर्त नित्यं च, अतस्तस्य कथं करणविनाशौ?, उच्यते, तात्स्थ्यात्तद्यपदेश इति कृत्वा तद्व्यवस्थितद्रव्यकरणविनाशभावादुपचारतोऽदोषः, तथा कालो नाम वर्तनादिरूपत्वाव्यपर्यायस्ततो द्रव्यस्य परिकर्मणि विनाशे वा कालस्यापि तावुपचर्येते, इति कालोपक्रमः, चन्द्रोपरागादिपरिज्ञानलक्षणे वा / भावोपक्रमो द्विधा-आगमतो ज्ञाता उपयुक्तः, नोआगमतो द्विधा-प्रशस्तोऽप्रशस्तश्च, अप्रशस्तभावोपक्रमे ब्राह्मणीगणिकामात्यादीनामुदाहरणानि, प्रशस्तः श्रुतादिनिमित्तमाचार्यभावोपक्रमः, ननु व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकं, [तदसम्यक् ], तस्यापि व्याख्याङ्गत्वात् , उक्तं च "गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि / तस्माद्गुराधनपरेण हितकाविणा भाव्यं // 1 // " (प्रश. 69) ननु यद्येवं तर्हि गुरुभावोपक्रमो अभिधातव्यो न शेषा निष्प्रयोजनत्वात् , न, गुरुचित्तप्रसादनार्थमेव तेषामुपयोगित्वात् , तथाहि-गुरोस्तथाविधकार्योत्पत्तौ तच्चित्तप्रसादनार्थमेवाशनादिद्रव्यं, व्याख्यास्थानादिक्षेत्रं, प्रव्रज्यादिलग्नादिकालं वोपक्रमतो विनेयस्य द्रव्याधुपक्रमा अपि सार्थका एव, अथवोपक्रमसाम्यात्प्रकृते निरुपयोगिनोऽपि अन्यत्रोपयोक्ष्यन्ते इत्युपन्यस्तत्वाददोषः / अथ शास्त्रीय उच्यते, असावपि षोढा, तद्यथा-आनुपूर्वी 1 नाम 2 प्रमाणं 3 वक्तव्यता 4 अर्थाधिकारः 5 समवतारः 6, तत्रानुपूर्वी दशधा, तद्यथा-नामानुपूर्वी 1 स्थापना० 2 द्रव्या० 3 क्षेत्रा० 4 काला० 5 गणना. 6 उत्कीर्तना० 7 संस्थाना०८ सामाचार्यानुपूर्वी 9 भावानुपूर्वी 10, एतासु दशस्वानुपूर्वीषु यथासम्भवमवतारणीयमिदं सामा // 107 //