SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ उपक्रमा आवश्यकनिर्युक्तेरव चूर्णिः // 106 // ****XXXXXXXXXXXXX भूतं सत् निक्षिप्यते, न चाऽनिक्षिप्तं नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयैर्विचार्यते, अतोऽयमेव क्रमः। तत्रोपक्रमो द्विविधः-शास्त्रीयः 1 इतरश्च 2, तत्रेतरः षट्प्रकारः-नाम 1 स्थापना 2 द्रव्य 3 क्षेत्र 4 काल 5 भाव 6 भेदात् , नामस्थापने सुगमे, द्रव्योपक्रमो द्विधा-[आगमतो नोआगमतश्च] तत्रागमत उपक्रमपदार्थज्ञः तत्र चानुपयुक्तः, नोआगमतस्त्रिधाज्ञशरीरभव्यशरीरे प्रतीते, तद्व्यतिरिक्तस्त्रिधा-सचित्ताचित्तमिश्रभेदात् , तत्र सचित्तद्रव्योपक्रमस्त्रिधा-द्विपदचतुष्पदापदोपाधिभेदात् , पुनरेकैको द्विधा-परिकर्मणि वस्तुविनाशे च, तत्र परिकर्म नाम द्रव्यस्य गुणविशेषपरिणामकरणं, वस्त्वभावापादनं वस्तुविनाशः, तत्र परिकर्मणि सति द्विपदोपक्रमो यथा घृताद्युपभोगेन पुरुषस्य वर्णादिकरणं अथवा कर्णस्कन्धवर्द्धनादि, अन्ये तु शास्त्रगन्धर्वनृत्यादिकलासम्पादनमपि द्रव्योपक्रमं व्याचक्षते, इदं पुनरसाधु, विज्ञानविशेषात्मकत्वाच्छास्त्रादिपरिज्ञानस्य, तस्य च भावत्वात् , किन्त्वात्मद्रव्यसंस्कारविवक्षापेक्षया शरीरवर्णादिकरणवत्स्यादपीति / एवं शुकसारिकादीनामपि शिक्षागुणविशेषकरणं भावनीयं, एवं गजादीनां शिक्षागुणविशेषकरणे चतुष्पदोपक्रमः, अपदानां वृक्षादीनां वृक्षार्युवेदोपदेशात् वार्धक्यादिगुणापादनमपदोपक्रमः / वस्तुविनाशे सति पुरुषादीनां त्रयाणामपि खड्गादिभिर्विनाशः। तथाऽचित्तद्रव्योपक्रमः परिकर्मणि यथा पद्मरागमणेः क्षारमृत्पुटपाकादिना वैमल्यापादनं, तद्विनाशे च विनाशः। मिश्रद्रव्योपक्रमः परिकर्मणि कटकादिविभूषितपुरुषादिद्रव्यस्य शिक्षापादनं, वस्तुविनाशे च खड्गादिभिर्विनाशः। कारकयोजना स्वधिया भावनीया, तद्यथाद्रव्यस्य द्रव्याणां द्रव्येण द्रव्यद्रव्ये द्रव्येषु वा उपक्रमो द्रव्योपक्रमः, तत्र द्रव्यस्योपक्रमो यथा एकस्य पुरुषस्य शिक्षाकरणं, द्रव्याणां तेषां वहूनां, द्रव्येण फलकेन समुद्रतरणं, द्रव्यैर्बहुभिः फलकैनावं निष्पाद्य समुद्रोल्लङ्कानं, कस्याप्येकस्मिन् // 106 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy