________________ आवश्यक निर्युक्तेरव अनुयोगद्वाराणि चूर्णिः // 105 // त्रात्मनो व्रणचिकित्साऽपराधव्रणरोहणं कायोत्सर्गस्य 5 अपगतव्रतातिचारेतरोपचितकर्मविशरणार्थमनशनादिगुणसन्धारणा प्रत्याख्यानस्य 6, कोऽर्थः-अनन्तराभिहितपञ्चविधावश्यकानुष्ठानेनापगता ये व्रतानामतिचारास्तेभ्यो ये इतरे सामायिकका| योत्सर्गान्तपञ्चविधावश्यकादशुद्धास्तैरुपचितं यत्कर्म तद्विशरणार्थमनशनादिगुणसन्धारणा प्रत्याख्यानस्याधिकारः, इदमुक्तं | भवति-इह केचिदतिचारा मन्दक्लेशजनिताः कायोत्सर्गावसानावश्यकानुष्ठानतोऽपि निवर्तन्ते, अपरे अधिकतरसंक्लेशनिवाःतपःशोध्या भवन्ति, तैयदुपचितकर्म तन्निर्जरणार्थ अनशनादिगुणप्रतिपत्तिरधिकारः षष्ठावश्यकस्य 6 / तत्र प्रथममध्ययनं सामायिक समभावलक्षणत्वाच्चतुर्विंशतिस्तवादीनां च तद्भेदत्वात्प्राथम्यमस्य, अस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि, अनुयोगो नाम सूत्रस्य व्याख्यानं तस्य द्वाराणीव द्वाराणि-तत्प्रवेशमुखानीति, यथाहि-अकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपि हस्त्यश्वादिसङ्कुलत्वात् दुःखसञ्चारं, कृतचतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगम, एवं सामायिकपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं भवति, कृतैकानुयोगद्वारमपि कृच्छ्रेण द्राधीयसा च कालेनाधिगम्यते, विहितसप्रभेदोपक्रमादिद्वारचतुष्टयं तु सुखाधिगममल्पीयसा च कालेनाधिगम्यते, ततः फलवाननुयोगद्वारोपन्यासः, तानि चामूनि-उपक्रमो निक्षेपोऽनुगमो नयश्च, तत्र शास्त्रमुपक्रम्यते-समीपमानीयते निक्षेपस्यानेनेति उपक्रमः, शास्त्रस्य न्यासदेशानयनमित्यर्थः, निक्षेपयोग्यतापादनमिति यावत् , उपक्रमान्तर्गतभेदैहि विचारितं निक्षिप्यते नान्यथेति, निक्षेपणं निक्षेपो-नामादिभेदैः शास्त्रस्य न्यसनं, एवमनुगमनमनुगमः, अनुगम्यते वा शास्त्रमनेनेत्यनुगमः-सूत्रस्यानुकूलः परिच्छेदः। एवं नयनं नीयते वाऽनेनेति नयः-वस्तुनो वाच्यस्य पर्यायाणां सम्भवतोऽधिगम इत्यर्थः। आह-एषामुपक्रमादिद्वाराणां किमित्येवं क्रमः?, उच्यते, न ह्यनुपक्रान्तमसमीपी // 105 //