SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ |श्रुतस्कन्ध आवश्यकनियुक्तेरव चूर्णिः निक्षेपाः // 104 // नाम ॥१॥(अनु. गा. 3) तथा श्रुतमपि चतुर्विधं नामादिभेदात्, तत्र नामस्थापने सुप्रतीते, द्रव्यश्रुतं द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्त्रिविधं-ज्ञशरीरभव्यशरीरे प्राग्वत् , तक्ष्यतिरिक्तं तु पुस्तकपत्रन्यस्तं, भावश्रुतं द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोआगमतो द्विधा-लौकिकं लोकोत्तरं च, तत्राद्यं भारतरामायणादि, द्वितीयं द्वादशाङ्गं गणिपिटकं / आवश्यकं च नोआगमतो भावश्रुतं, नोशब्दोऽत्रैक[ देश ] वचनः, तस्य चेमान्येकार्थिकानि-श्रुतं 1, सूत्रं 2, ग्रन्थः 3 सिद्धान्तः 4 प्रवचनं 5 आज्ञा 6 वचनं 7 उपदेशः 8 प्रज्ञापना 9 आगमः 10 इति / स्कन्धोऽपि चतुर्की-तथैव, तत्राद्यभेदौ प्रतीतौ, द्रव्यस्कन्धो द्विधा, आगमादिभेदात् , तत्रागमतः प्राग्वत् , नोआगमतोऽपि प्राग्वत्रिधा, आद्यभेदौ प्रतीतौ, तद्व्यतिरिक्तस्त्रिविधः-सचित्तोऽचित्तो मिश्रश्च, सचित्तो द्विपदादिः, अचित्तो द्विप्रदेशिकादिः, मिश्रः सेनादेर्देशादिः, भावस्कन्धो द्विधा-आगमतो ज्ञाता उपयुक्तः 1, नोआगमतस्त्विदमावश्यक, नोशब्दो देशवचनः, सकलश्रुतस्कन्धापेक्षया आवश्यकश्रुतस्कन्धस्य एकदेशत्वात् , सामायिकादीनां श्रुतविशेषाणां स्कन्धः श्रुतस्कन्धः, आवश्यकं च तत् श्रुतस्कन्धश्च आवश्यकश्रुतस्कन्धः / ननु कस्मादिदमावश्यकं षडध्ययनात्मकं ?, उच्यते, षडाधिकारभावात् , ते चामी सामायिकादीनां यथायोगमवसेयाः, "सावजजोगविरई 1 उकित्तण 2 गुणवओ अपडिवत्ती 3 / खलिअस्स निंदणा 4 वणतिगिच्छा ५गुणधारणा चेव 6 // 1 // " (अनु० गा०६) अस्या व्याख्या-सहावद्येन पापेन वर्तन्ते इति सावद्याश्च ते योगा व्यापाराश्चेति, तेषां विरतिर्विरमणं सामायिकााधिकारः 1 उत्कीर्तनेति गुणोत्कीर्तना अर्हतां चतुर्विंशतिस्तवस्य 2, | गुणा ज्ञानादयो मूलोत्तराख्या वा, तद्वतः प्रतिपत्तिर्वन्दनाध्ययनस्य 3, चः समुच्चये, स्खलितस्य निन्दना प्रतिक्रमणस्य 4, चारि BR // 104 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy