________________ आवश्यकनिर्युक्तेरव आवश्यकनिक्षेपाः // 1.3 // **** अत एव प्रतिपूर्ण हीनाधिकाक्षराभावात् 14, प्रतिपूर्णघोषं गुरुवत् सम्यगुदात्तादिघोषाणामुच्चारणात् 15, वाचनया प्रश्नेन / परिवर्तनया धर्मकथया नानुप्रेक्षया उपगतं प्राप्तं वाचनोपगतं 17, शेषं सुगम, नोआगमतो द्रव्यावश्यकं त्रिविधं-ज्ञशरीरभव्यशरीरद्रव्यावश्यके 2 पूर्ववत्, तद्व्यतिरिक्तं त्रिधा-लौकिकं 1 कुप्रावचनिक 2 लोकोत्तरं च 3, तत्र ये इमे राजेश्वरतलवरमाण्डलिकादयः प्रातरुत्थाय शरीरचिन्तामुखदन्तप्रक्षालनराजकार्यादि कुर्वन्ति तल्लौकिकं द्रव्यावश्यकं 1, यः पुनश्चरकप्रमुखाः परिव्राजकाः प्रातरुत्थाय स्कन्दादिदेवतागृहसम्मार्जनोपलेपनधूपदानादि कुर्वन्ति तत् कुप्रावचनिकं द्र० 2, यत्पुनरेते श्रमणगुणमुक्तयोगिनः षड्जीवनिकायनिरनुकम्पा हया इवोद्दामानो गजा इव निरङ्कुशाः पाण्डुरपटप्रावरणा जिनानामनाज्ञया स्वच्छन्दसो विहृत्योभयकालमावश्यककरणायोपतिष्ठन्ते तल्लोकोत्तरं द्रव्यावश्यकं,भावशून्यत्वेनाभिप्रेतफलाभावात्।भावावश्यकमपि द्विधा-आगमतो नोआगमतश्च, तत्रागमतो भावावश्यकमावश्यकज्ञाता उपयुक्तः, तदुपयोगानन्यत्वात्, अथवाऽऽवश्यकार्थोपयोगपरिणाम एव, नोआगमतस्त्रिविधं-लौकिकादिभेदात् , तत्र यत्पूर्वाह्ने भारतव्याख्यानमपराहे रामायणव्याख्यानं तल्लौकिकं भावावश्यकं, यत्पुनरेते चरकादिपाषण्डस्था निजनिजदेवतास्मरणजापप्रमुखमनुष्ठानं कुर्वन्ति तत् कुप्रावचनिकं भावावश्यकं 2, यत् पुनः श्रमणादिचतुर्विधः सङ्घ एकान्ते विशुद्धचित्त उभयकालं प्रतिक्रमणं करोति तल्लोकोत्तरं [नोआगमतो] भावावश्यकं 3, ज्ञानक्रियारूपोभयपरिणामात्मकत्वान्मिश्रवचनश्चात्र नोशब्दः, अनेनैव च लोकोत्तरेणेहाधिकारः, अस्य चामूनि एकार्थिकानिआवश्यकं 1, अवश्यकरणीयं 2, ध्रुवनिग्रहो 3, विशुद्धिः४, अध्ययनषटूवर्गः 5, न्यायः६ आराधना 7 मार्गः 8 इति, आवश्यकशब्दव्युत्पत्तिप्रदर्शिका चेयं गाथा-'समणेण सावएण य अवस्सकायव्वयं हवइ जम्हा / अंतो अहोनिसस्स य तम्हा आवस्सयं // 103 //