SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः आवश्यकनिक्षेपाः &******** // 102 // यदि च यथार्थ तत उपादेयं, ततः शास्त्राभिधानमेवालोच्यते / श्रमणादिभिरवश्यमुभयकालं कर्तव्यमित्यावश्यकं / यदि वा ज्ञानादिगुणकदम्बकं मोक्षो वा आ-समन्ताद्वश्यं क्रियतेऽनेनेत्यावश्यकं, यद्वा 'वस निवासे' गुणशून्यमात्मान- | मावासयति गुणैरिति आवासकं, गुणसान्निध्यमात्मनः करोति इति भावार्थः / तच्च नामादिचतुर्भेदाच्चतुर्विधं, तत्र यस्य जीवस्याजीवस्योभयस्य वावश्यकमिति नाम क्रियते तन्नामावश्यकं / तथा काष्ठकर्मादिषु अक्षवराटिकादिषु वा सद्भावस्थापनया [ असद्भावस्थापनया वा] यदावश्यकमिति स्थाप्यते तत् स्थापनावश्यकं / द्रव्यावश्यकं द्विधा-आगमतो नोआगमतश्च, तत्राऽऽगमतो यस्यावश्यकमिति पदं शिक्षितं स्थितं जितं परिजितं नामसमं घोससमं अहीनाक्षरं अनत्यक्षरं अव्याविद्धाक्षरं अस्खलितं अमिलितं अव्यत्याडितं प्रतिपूर्ण प्रतिपूर्णघोषं कण्ठोष्ठविप्रमुक्तं वाचनोपगतं भवति स पुरुषो द्रव्यावश्यकं / तत्र शिक्षितं पठनक्रियया अन्तं नीतं 1, तदेवाविस्मरणतश्चेतसि स्थितत्वात्स्थितं 2, परावर्त्तनं कुर्वतः परेण वा क्वचित्पृष्टस्य यच्छीघ्रमागच्छति तज्जितं 3, अक्षरसङ्ख्यया पदसङ्ख्यया वा परिच्छिन्नं मितं 4, परि-समन्ताजितं परावर्त्तनं कुर्वतो यत्क्रमेणोत्क्रमेण वा समागच्छतीति भावः 5, नामसमं यथा कस्यचित्स्वनाम शिक्षितं स्थितं जितं परिजितं च भवति तथैव तदपीति भावः 6, यथा गुरुणाभिहिता घोषाः तथा यत्र शिष्येणापि सम्यगुच्चार्यन्ते तत् घोषसमं 7, एकेनाप्यक्षरेणाहीनमहीनाक्षरं 8, एकेनाप्यक्षरेणानधिकमनत्यक्षरं 9, तथा न व्याविद्धानि-विपर्यस्तरत्नमालागतरत्नानीव विपर्यस्तान्यक्षराणि यत्र तदव्याविद्धाक्षरं 10 उपलशकलाद्याकुलभूभागे लाङ्गलमिव यन्न स्खलति तदस्खलितं 11 अनेकशास्त्रसम्बधीनि सूत्राण्येकत्र मीलयित्वा यत्पठ्यते तन्मिलितं यन्न तथा तदमीलितं 12, अव्यत्यावेडितमस्थानविरतिरहितं 13, *********** // 102 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy