SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ नन्दीव्याज नियमः आवश्यकनियुक्तेरव चूर्णिः // 101 // इति वाक्यशेषः स्वपरप्रकाशकत्वात्तस्य, तथा चात्र प्रदीपदृष्टान्तः, यथा प्रदीपः स्वपरप्रकाशकत्वात्स एव हि गृहेऽधिक्रियते एवमिहापि श्रुतज्ञानमिति भावः॥७९॥ इति पीठिका समाप्ता॥ सम्प्रति मङ्गलसाध्यः प्रकृतोऽनुयोग उपदयते स च स्वपरप्रकाशकत्वात् गुर्वायत्तत्वाच्च श्रुतज्ञानस्य / ननु आवश्यकस्थानयोगः प्रकत एव, पुनः श्रुतज्ञानस्येत्ययुक्तं, उच्यते, आवश्यकमिदं श्रुतान्तर्गतमित्येतदर्थप्रकाशकत्वादेतद्वाक्यस्येत्यदोषः, ननु यदि आवश्यकस्यानुयोगस्तदाऽवश्यकं किं अङ्गं 1, अङ्गानि 2, श्रुतस्कन्धः 3, श्रुतस्कन्धाः 4, अध्ययनं 5, अध्ययनानि 6, उद्देशकः 7, उद्देशका वा 81, उच्यते, आवश्यकं श्रुतस्कन्धोऽध्ययनानि च, न शेषा विकल्पाः / ननु नन्दीव्याख्याने अङ्गानङ्गप्रविष्टश्रुतनिरूपणायामनङ्गतास्याभिहितैव ततश्च किमङ्गमङ्गानीत्याद्याशङ्कानुपपत्तिरिति, उच्यते, न अवश्यं शास्त्रादौ नन्द्यध्ययनार्थकथनं कर्त्तव्यमिति तद्व्याख्याऽनियमप्रदर्शनार्थत्वाददोषः, अकृते चाऽऽशङ्का सम्भवति। ननु मङ्गलार्थ शास्त्रादाववश्यमेव नन्द्यध्ययनात् कथमनियम इति, उच्यते, ज्ञानाभिधानमात्रस्यैव मङ्गलत्वान्नावश्यमवयवार्थाभिधानं कर्त्तव्यं, तदकरणे चाशङ्का सम्भवति, किश्च-आवश्यकव्याख्यानारम्भे शास्त्रान्तरव्याख्यानारम्भोऽयुक्त एव, शास्त्रान्तरं च नन्दी, पृथक्श्रुतस्कन्धत्वात् , ननु यद्येवं तदिहावश्यक श्रुतस्कन्धानुयोगारम्भे किमिति तदनुयोग इति, उच्यते, शिष्यानुग्रहार्थ, न त्वयं नियम इति, अपवादप्रदर्शनार्थ वा, एतदुक्तं भवति-कदाचित्पुरुषाद्यपेक्षया उत्क्रमेणापि अन्यारम्भेऽपि चान्यद्व्याख्यायत इति / तत्र शास्त्राभिधानं आवश्यकश्रुतस्कन्धः, तद्भेदाश्चाध्ययनानि, तस्मादावश्यकं निक्षेप्तव्यं, श्रुतस्कन्धश्च / किञ्च| किमिदं शास्त्राभिधानं प्रदीपाभिधानवद्यथार्थमाहोस्वित्पलाशाभिधानवदयथार्थ उत डित्थाद्यभिधानवदनर्थकमेवेति परीक्ष्यं, // 101 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy