________________ आवश्यकनियुक्तेरवचूर्णिः गत्यादी मार्गणा ज्ञानं 1 [नोइन्द्रिय] अतीन्द्रियेषु 2 त्रसकायाकाययोः 3 सयोगायोगयोः 4 अवेदेषु 5 अकषायेषु 6 शुक्लेश्यालेश्ययोः | सम्यग्दृष्टिषु 8 केवलज्ञानिषु 9 केवलदर्शनिषु 10 संयतेषु तथा नोसंयता नोऽसंयताश्चेति नोसंयतासंयताः तेषु च 11 / एकमग्रेऽपि तेऽभ्यूह्याः, साकारानाकारोपयोगयोः 12 आहारकानाहारकयोः 13 भाषकाभाषकयोः 14 परीत्तेषु नोपरीत्तापरित्तेष च 15 पर्याप्तेषु नोपर्याप्तापर्याप्तेषु च 16 बादरेषु नोसूक्ष्मबादरेषु च 17 [संज्ञिषु] नोसंश्यसंज्ञिषु 18 भव्येषु नोभव्याभव्येषु च 19 चरमेषु, भवस्थकेवलिनां चरमत्वात् , अचरमेषु च सिद्धानां भवान्तरप्राप्त्यभावादचरमत्वात् 20, पूर्वप्रतिपन्न-12 प्रतिपद्यमानकयोजना तु स्वधिया कर्त्तव्या 1 / द्रव्यप्रमाणद्वारे प्रतिपद्यमानकानाश्रित्योत्कर्षतोऽष्टोत्तरशतं केवलिनां प्राप्यते, | पूर्वप्रतिपन्नाश्च जघन्यत उत्कर्षतश्च कोटीपृथक्त्वप्रमाणा भवस्थकेवलिनः प्राप्यन्ते, सिद्धा अनन्ताः 2, क्षेत्रस्पर्शनाद्वारयोस्तु / जघन्यतो लोकस्यासङ्ख्येयभागे केवली लभ्यते, उत्कर्षतस्तु सर्वलोके 3-4, कालद्वारे साद्यपर्यवसितं कालं सर्वोऽपि केवली भवति 5, अन्तरं तु केवलज्ञानस्य न विद्यते प्रतिपाताभावात् 6, भागद्वारं मतिज्ञानवत् 7, भावद्वारे क्षायिके भावे 8, अल्पबहुत्वद्वारं मतिज्ञानिवत् 9 / तच्च केवलज्ञानं समासतश्चतुर्विधं प्रज्ञप्त, द्रव्यादिभेदात् , तत्र द्रव्यतः सर्वद्रव्याणि जानाति | | पश्यति च केवली, क्षेत्रतः सर्वक्षेत्रं, कालतः सर्वकालं, भावतः सर्वान् भावान् // 78 // उक्तं केवलज्ञानं, तदभिधानाच्च नन्दी, तदभिधानान्मङ्गलमिति / तदेवं मङ्गलस्वरूपाभिधानद्वारेण ज्ञानपञ्चकमुक्तं, इह तु प्रकृते श्रुतज्ञानाधिकारः, तथा चाह इत्थं पुण अहिगारो, सुयनाणेणं जओ सुएणं तु / सेसाणमप्पणोऽविअ, अणुओगु पईवदिढतो // 79 // अत्र पुनः (श्रुतज्ञानेन) प्रकृतेऽधिकारः श्रुतज्ञानेनैव शेषाणां मत्यादिज्ञानानां आत्मनोऽपि चानुयोगो व्याख्यानं क्रियते // 10 //