________________ आवश्यकनिर्युक्तेरव अनन्तरसिद्धाः परम्परसिद्धाश्च // 99 // विवक्षितजीवः सिद्धस्तस्मिन् समये यधन्यः कोऽपि न सिद्धस्तस्य एकसिद्धके० 14, एकस्मिन् समयेऽनेकेषां सिद्धानामनेकसिद्धके० 15, एकस्मिंश्च समयेऽनेके सिद्ध्यन्त उत्कर्षतोऽष्टोत्तरशतं, यत उक्तं-"बत्तीसा अडयाला सट्ठी बावत्तरी अ बोद्धव्वा / चुलसीइ छन्नउई दुरहिअमहुत्तरसयं च // 1 // " अस्या व्याख्या-अष्टौ समयान् यावन्निरन्तरमेकादयो द्वात्रिंशत्पर्यन्ताः सिद्ध्यन्तः प्राप्यन्ते, प्रथमसमये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत्सिद्ध्यन्तः प्राप्यन्ते, द्विती| येऽपि समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत् , एवं यावदष्टमेऽपि समये जघन्यत एको द्वौ वा उत्कर्षतः | द्वात्रिंशत् , ततः परमवश्यमन्तरं / तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिद्ध्यन्तः सप्त समयान् यावत् प्राप्यन्ते, परतो नियमादन्तरं, तथा एकोनपञ्चाशदादयः षष्टिपर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतः षट् समयान् यावत् , परतोऽन्तरमेव / तथैकषष्ट्यादयो द्विसप्ततिपर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतः पञ्च समयान् यावत् , ततोऽन्तरमेव / एवमेव त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ताश्चतुरः समयान् यावत् , पञ्चाशीत्यादयः षण्णवतिपर्यन्तास्त्रीन् समयान् , सप्तनवत्यादयो द्वयुत्तरशतादयो(शतपर्यन्ता द्वौसमयौ, त्र्युत्तरशतादयो) अष्टोत्तरशतपर्यन्ताः सिद्ध्यन्त एकमेव समयं यावत्प्राप्यन्ते न द्विवादिसमयानीति। परम्परसिद्धकेवलज्ञानमनेकविधं प्रज्ञप्तं, तद्यथा-अप्रथमसमयसिद्धकेवलज्ञानं, सिद्धत्वद्वितीयसमयकेवलमिति भावः, द्विसमयसिद्धकेवलज्ञानं, सिद्धत्वतृतीयसमयकेवलमित्यर्थः, एवं त्रिसमयसिद्धके० चतुःसमयसिद्धके यावत्सङ्ख्येयसमयसिद्धके० असङ्ख्येयसमयसिद्धके० अनन्तसमयसिद्धकेवलज्ञानं / तदेवमुक्तं केवलज्ञानस्वरूपं, अथास्य गत्यादिद्वारविषया सत्पदप्ररूपणता द्रव्यप्रमाणादीनि च विभाव्यन्ते, तत्र सत्पदप्ररूपणतायां गत्यादीनि विंशतिद्वाराणि अङ्गीकृत्य यथाक्रमं सिद्धिगतौ मनुष्यगतौ च केवल // 99 //