________________ अनन्तरसिद्धाः आवश्यक निर्युक्तेरव चूर्णिः // 98 // स्मरणादिना बुद्धाः स्वयम्बुद्धाः, ते च द्विधा-तीर्थकरास्तव्यतिरिक्ताश्च, तेषां चोपधिर्धादशविध एव पात्रकादिकः, पूर्वाधीतं श्रुतं भवति वा न वा, यदि स्यात्ततो देवता लिङ्गं प्रयच्छति गुरुसन्निधौ वा गत्वा प्रतिपद्यते, यदि च एकाकिविचरणसमर्थः इच्छा च तस्य तथारूपा जायते तत एकाकी विहरति अन्यथा गच्छवासेऽवतिष्ठते / अथ पूर्वाधीतं श्रुतं न स्यात्तर्हि नियमाद् गुरुसन्निधौ गत्वा लिङ्गं प्रतिपद्यते, गच्छं चावश्यं न मुञ्चति / प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य बुध्यन्ते, प्रत्येकं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः, तथा च श्रूयते बाह्यप्रत्ययसापेक्षा करकण्ड्वादीनां बोधिः, बहिःप्रत्ययमपेक्ष्य ते च बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति, न गच्छवासिनः / तेषां चोपधिर्द्विधा-जघन्यत उत्कर्षतश्च, तत्र जघन्यतो द्विविधः उत्कर्षतो नवविधः प्रावरणवः, पूर्वाधीतं श्रुतं नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि उत्कर्षतः किञ्चिन्न्यूनानि दशपूर्वाणि, तथा लिङ्गं देवता प्रयच्छति लिङ्गरहितो वा कदाचिद्भवतीतिविशेषः / तथा बुद्धराचार्यादिभिः बोधितस्य यत्केवलज्ञानं तबुद्धबोधितके० 7 स्त्रिया लिङ्ग स्त्रीलिङ्गं स्त्रीत्वस्योपलक्षणं, तच्च विधा, तद्यथा-वेदः शरीरनिवृत्तिः नेपथ्यं च, तत्रेह शरीरनिर्वृत्त्या प्रयोजनं, न वेदनेपथ्याभ्यां, वेदे सति सिद्धत्वाभावात, नेपथ्यस्य चाप्रमाणत्वात् , तस्मिन् स्त्रीलिङ्गे वत्तेमाना ये | सिद्धास्तेषां केवलज्ञानं स्त्रीलिङ्गसि० 8, एवं पुरुषलिङ्गसि० 9, नपुंसकलिङ्गसिद्धकेवलज्ञानेऽ(नम)पि 10, स्वलिङ्गेरजोहरणादौ सिद्धानां केवलज्ञानं स्वलिङ्गसि० 11, ये अन्यस्मिन् लिङ्गे वर्तमानाः सम्यक्त्वं प्रतिपद्य भावनाविशेषात्केवलज्ञानमुत्पाद्य केवलोत्पत्तिसमकालमेव कालं कुर्वन्ति तेषामन्यलिङ्गसि० 12, यदि पुनस्ते अन्यलिङ्गस्थिताः केवलमुत्पाद्याऽऽत्मनोअरिक्षीणमायुः पश्यन्ति ततः साधुलिङ्गमेव गृह्णन्ति, गृहिलिङ्गे स्थिताः सन्तो ये सिद्धास्तेषां गृहिलिङ्गसि० 13, यस्मिन्समये