SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ अनन्तर सिद्धाः आवश्यक नियुक्तेरव चूर्णिः // 97 // भवस्थके। तत्र यत्सयोगिभवस्थकेवलज्ञानं तद्विविधं-प्रथमसमयसयोगिभवस्थकेवलज्ञानं 1 अप्रथमसमयस० च 2 / तत्र यस्मिन्समये केवलमत्पन्नं तस्मिन्समये तत्प्रथमसमयस०, शेषेषु तु समयेषु शैलेशीप्रतिपत्तेरा वर्तमानमप्रथमसमयसयोगिभ०. अथवाऽन्यथा द्विविधं चरमसमयसयोगिभवस्थकेवलज्ञानं 1, अचरमसमयसयोगिभ० 2 / तत्र यत्सयोगित्वावस्थायाश्चरमसमये वर्तमानं तच्चरमस० 1, ततः प्राक् शेषेषु समयेषु वर्तमानमचरमस०२, तथा अयोगिभवस्थकेवलज्ञानमपि द्विविधं, प्रथमसमयायोगिभ० 1 अप्रथमस० 2 च, अथवा चरमसमयायोगिभ० 1 अचरमसमयायोगिभ० 2, प्रथमाप्रथमचरमाचरमसमयभावना प्रागुक्तानुसारेण स्वयमभ्यूह्या / सिद्धकेवलज्ञानं द्विविध-अनन्तरसिद्धकेवलज्ञानं परम्परसिद्धकेवलज्ञानं च, तत्र यस्मिन्समये सिद्धो जायते तस्मिन्समये वर्तमानमनन्तरसिद्धकेवलज्ञानं 1 सिद्धत्वद्वितीयादिसमयेषु वर्तमानं परम्परसिद्धके. 2, तत्रानन्तरसिद्धकेवलज्ञानमुपाधिभेदात्पञ्चदशविधं प्रज्ञप्तं, तद्यथा-तीर्थसिद्धकेवलज्ञानं 1 अतीर्थसिद्धके० 2 तीर्थकरसिद्धके० 3 अतीर्थकरसिद्धके० 4 स्वयम्बुद्धसिद्धके० 5 प्रत्येकबुद्धसि०६ बुद्धबोधितसि०७ स्त्रीलिङ्गसिद्धके०८ पुरुषलिङ्गसिद्ध०९ नपुंसकलिङ्गसि० 10 स्वलिङ्गसिद्धके० 11 अन्यलिङ्गसिद्ध० 12 गृहिलिङ्गासि० 13 एकसिद्धके० 14 अनेकसिद्धके० 15 / तत्र ये तीर्थकराणां तीर्थे वर्तमाने सिद्धास्तेषां यत्केवलज्ञानं तत्तीर्थसि० 1, ये पुनस्तीर्थकराणां | तीर्थेऽनुत्पन्ने व्यवच्छिन्ने वा सिद्धास्तेषामतीर्थसिद्ध०२, तीर्थकराः सन्तो ये सिद्धास्तेषां तीर्थंकर सि० 3, शेषाणामतीर्थकरसि० 4, स्वयम्बुद्धाः सन्तो ये सिद्धास्तेषां स्वयम्बुद्धसिद्ध०५, प्रत्येकबुद्धाः सन्तो ये सिद्धास्तेषां प्रत्ये० 6 / ननु स्वयम्बुद्ध|प्रत्येकबुद्धानां का प्रतिविशेषः ?, उच्यते, बोध्युपधिश्रुतलिङ्गकृतः, तथाहि-स्वयम्बुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, निजजाति // 9 // आव०चू०९
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy