SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव जिनवाचः श्रुतता गा. 78 चूर्णिः // 96 // ध्वनिरूपं विद्यते, द्रव्यश्रुतं च भाव श्रुतपूर्वकं, ततो भगवानपि श्रुतज्ञानीति, तदाशङ्कापनोदार्थमाह केवलणाणेणऽत्थे, णाउं जे तत्थ पण्णवणजोग्गे। ते भासह तित्थयरो, वयजोग सुयं हवइ सेसं // 78 // इह तीर्थकरः केवलज्ञानेनार्थान् धर्मास्तिकायादीन् मूर्त्तामूर्लान् अभिलाप्यानभिलाप्यान् ज्ञात्वा-विनिश्चित्य, केवलज्ञानेनैव ज्ञात्वा न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकभावातिक्रमात् , सर्वक्षये देशक्षयाभावात् , ये तत्र तेषामर्थानां मध्ये प्रज्ञापनयोग्या अभिलाप्या इत्यर्थः तान् भाषते, नेतरान् , तानपि प्रज्ञापनायोग्यान् भाषते, न सर्वान् , तेषामनन्तत्वाद्वाचः क्रमवर्तित्वाच्चायुषः परिमितत्वाच्च भाषितुमशक्यत्वात् , किन्तु कतिपयानैवानन्तभागमात्रान् / तत्रापि तान्कतिपयानेव भाषते ग्राहकापेक्षया योग्यान् , तत्रापि यावन्मात्रे भणिते शेष स्वयमभ्यूहितुमीष्टे तावन्मात्रं, न त्वम्यूह्यमपि / तत्र केवल- | ज्ञानोपलब्धार्थाभिधायकः शब्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, तस्य भाषापर्याप्त्यादिनामकर्मोदयनिबन्धनत्वात् , श्रुतस्य च क्षायोपशमिकत्वात् , स च वाग्योगो भवति श्रुतं शेषमित्यप्रधानं द्रव्यश्रुतं, श्रोतृणां भावश्रुतकारणतया द्रव्यश्रुतं व्यवहियते इति तात्पर्याः, अन्ये त्वेवं पठन्ति 'वयजोग सुयं हवइ तेसिं' तत्रायमर्थः-तेषां श्रोतृणां श्रुतकारणत्वात् वाग्योगः श्रुतं भवति, अथवा वाग्योगश्रुतं द्रव्यश्रुतमेवेति / तत्केवलज्ञानं स्वामिनमधिकृत्य द्विविधं, भवस्थकेवलज्ञानं सिद्धकेवलज्ञानं च, तत्र यन्मनुष्यभवेऽवस्थितस्य चतुर्वघातिकर्मस्वक्षीणेषु केवलज्ञानं तद्भवस्थके०, यत्पुनरशेषेषु कर्माशेष्वपगतेषु सिद्धत्वावस्थायां तत्सिद्धकेव०, आद्यं द्विविधं-सयोगिभवस्थकेव. अयोगिभवस्थके०, तत्र केवलज्ञानोत्पत्तेरारभ्य यावदद्यापि शैलेश्यवस्थां न प्रतिपद्यते तावत् सयोगि० भयस्थके० शैलेश्यवस्थायां तु अयोगि // 96 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy