SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तरवचूर्णिः // 95 // पर्यायदर्शन मिति। मनःपर्यायज्ञानी च साक्षान्मनोद्रव्यपर्यायानेवपश्यति, बाह्यास्तु तद्विषयभावापन्नाननुमानतो जानाति, कुतः?, केवलज्ञानम् मनसो मूर्त्तामूलद्रव्यालम्बनत्वात् छद्मस्थस्य चामूर्त्तदर्शनविरोधात् / सत्पदप्ररूपणादयस्त्ववधिज्ञानवदवगन्तव्याः, नानात्वं |गा. 77 चानाहारकापर्याप्तकौ न च प्रतिपद्यमानको नापि पूर्वप्रतिपन्नाविति // 76 // अथावसरप्राप्तं केवलज्ञानं प्रतिपादयन्नाह अह सव्वदव्वपरिणामभावविण्णत्तिकारणमणंतं / सासयमप्पडिवाइ, एगविहं केवलण्णाणं // 77 // अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्विति वचनादिहाऽथशब्द उपन्यासार्थः, सर्वाणि च तानि द्रव्याणि च-जीवादीनि तेषां परिणामाः-प्रयोगविस्रसोभयजन्या उत्पादादयः पर्यायाः सर्वद्रव्यपरिणामास्तेषां भावः-सत्ता स्वलक्षणं [वा स्वं स्वमसाधारणं रूपमित्यर्थः, तस्य विशेषेण ज्ञपनं लब्धिर्विज्ञप्तिः, विज्ञानं वा विज्ञप्तिः परिच्छेद इत्यर्थः, तस्याः कारणं, हेतुः सर्वद्रव्यपरिणामभावविज्ञप्तिकारणं केवलज्ञानमिति सम्बध्यते तच्च ज्ञेयानन्तत्वादनन्तं / तथा शश्वद्भवं | शाश्वतं, सदोपयोगवदिति भावार्थः। न प्रतिपाति अप्रतिपाति, सदावस्थायीति / ननु यच्छाश्वतं तदप्रतिपात्येव ततः किमनेन विशेषणेन ?, उच्यते, शाश्वतं नामानवरतं भवदुच्यते, तच्च कियत्कालं भवति, यावद्भवति तावन्निरन्तरभवनाच्छाश्वतं, ततः सकलकालभावप्रतिपत्त्यर्थमप्रतिपातिविशेषणोपादानं, एष तात्पर्यार्थः-अनवरतं सकलकालं भवति, अथवा एकपदव्यभिचारेऽपि विशेषणविशेष्यभावो भवतीति ज्ञापनार्थ विशेषणद्वयोपादानम् , तथाहि-शाश्वतमप्रतिपात्येव भवति, अप्रतिपाति तु शाश्वतम- CA95 // शाश्वतं च, यथाऽवधिज्ञानं, एकविधमेकप्रकारं तदावरणक्षयस्यैकरूपत्वात् // 77 // उपकार्यकृतोपकारानपेक्षं सकलसत्त्वानुग्रहाय सवितेव प्रकाशं देशनामातनोति, तत्राव्युत्पन्नविनेयानां केषाश्चिदेवमाशङ्का भवेत्-तीर्थकृतोऽपि तावद्रव्यश्रुतं
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy