SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ मनःपर्याय आवश्यकनियुक्तेरव ज्ञानम् |गा. 76 चूर्णिः // 94 // निरूपणायां सामान्यतोपदिष्टमपि विषयस्वाम्यादिविशेषोपदर्शनाय ज्ञानपञ्चकक्रमायातमभिधित्सुराह मणपज्जवनाणं पुण, जणमणपरिचिन्तियत्थपायडणं / माणुसखित्तनिबद्धं, गुणपच्चइयं चरित्तवओ॥ 76 // मनःपर्यायज्ञानं प्राग्निरूपितशब्दार्थ, पुनः विशेषणार्थः, स चावधिज्ञानादिदं स्वाम्यादिभेदाद्भिन्नमिति विशेषयति, अवधिज्ञानमविरतसम्यग्दृष्टेरपि भवति, मनःपर्यायज्ञानं पुनरप्रमत्तसंयतस्यामोषध्याद्यन्यतमर्द्धिप्राप्तस्यैव, तच्च द्रव्यतः संज्ञिमनोद्रव्यविषयं क्षेत्रतो मनुष्यक्षेत्रगोचरं कालतोऽतीतानागतपल्योपमाऽसङ्खयेयभागविषयं भावतो मनोगतानन्तपर्यायालम्बनं, ततोऽवधेर्भिन्नं, जनानां मनांसि जनमनांसि तैः परिचिन्तितश्चासावर्थश्च स, तथा स प्रकट्यते-प्रकाश्यतेऽनेनेति जनमन:परिचिन्तितार्थप्रकटनं, मानुषक्षेत्रनिबद्धं, न तद्बहिर्व्यवस्थितप्राणिमनोद्रव्यविषयमिति भावः, गुणा:-क्षान्त्यादयः ते प्रत्ययाःकारणानि यस्य तद्गुणप्रत्ययं, चारित्रमस्यास्तीति चारित्रवान् तस्य चारित्रवतोऽप्रमत्तसंयतस्यैवेदं भवति / इदं च सामान्यतः चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यतो ऋजुमतिरनन्तानन्तप्रादेशिकान्मनोभावपरिणतपुद्गलस्कन्धान जानाति, तानेव विपुलमतिर्विशुद्धतरान् 1 क्षेत्रत ऋजुमतिरधो अधोलौकिकग्रामेषु यः सर्वाधस्तन आकाशप्रदेशप्रतरस्तं यावत् , ऊर्द्ध यावत् ज्योतिश्चक्रस्योपरितलं, तिर्यग् यावदर्द्धतृतीयद्वीपसमुद्रेषु अर्द्धतृतीयाङ्गुलहीनेषु संज्ञिनां पञ्चेन्द्रियाणां पर्याप्तानां मनोगतान् भावान् जानाति, विपुलमतिर तृतीयैरङ्गलैरभ्यधिकेषु 2, कालत ऋजुमतिरतीतमनागतं च पल्योपमस्यासङ्ख्येयं भाग, विपुलमतिरधिकतरं विशुद्धतरं च 3, भावत ऋजुमतिरनन्तान् भावान् विपुलमतिस्तानेवाभ्यधिकान् 4, इदं च मनःपर्यायज्ञानं मनोद्रव्याणां पर्यायानेव गृह्णदुपजायते, पर्यायाश्च विशेषाः, विशेषग्राहकं च ज्ञानमतो मनःपर्यायज्ञानमेव भवति न तु मनः ****** // 94 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy