SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तेरव क्षीरास्रवाद्या लब्धयः चूर्णिः // 93 // मतीव मनःशरीरप्रह्लादहेतुरुपजायते तथा यद्वचनमाकर्ण्यमानं मनःशरीरसुखोत्पादनाय प्रभवति ते क्षीरानवाः, क्षीरमिव येषां वचनमासमन्तात् स्रवन्तीति क्षीरास्रवाः, एवग्रेऽपि। मध्वपि किमपि अतिशायि शर्करादिमधुरद्रव्यं द्रष्टव्यं, सर्पिघृतं, कोष्ठ इव धान्यं येषां बुद्धिराचार्यमुखाद्विनिर्गतौ तदवस्थावेव सूत्राथों धारयति न किमपि तयोः कालान्तरेऽपि गलति ते कोष्ठबुद्धयः, कोष्ठ इव बुद्धिर्येषां ते, एकमपि सूत्रपदमवधार्य शेषमश्रुतमपि तदवस्थमेव ये श्रुतमवगाहते ते पदानुसारिबुद्धयः, येषां पुनर्बुद्धिरेकमर्थपदं तथाविधमनुसृत्य शेषमश्रुतमपि यथावस्थितं प्रभूतमर्थमवगाहते ते] बीजबुद्धयः, येषां भिक्षा अन्यैर्बहुभिरप्युपभुज्यमाना न निष्ठां याति किन्तु तैरेव जिमितैस्तेऽक्षीणमहानसाः आदिग्रहणाद्गणधरत्वपुलाकत्वतैजससमुद्घाताहारकशरीरकरणादिलब्धयो वेदितव्याः। अर्हत्त्व 1 बलदेवत्व 2 वासुदेवत्व 3 चक्रित्व 4 सम्भिन्नश्रोतश्च (स्त्व)५ जङ्घाचरणत्व 6 पूर्वधरत्वानि 7 इत्येताः सप्त लब्धयो भव्यस्त्रीणां नोपजायन्ते, अभव्यपुरुषाणां मजुमतित्वविपुलमतित्वलब्धी अपि, अभव्यस्त्रीणां क्षीराम्रवमध्वास्रव [ सर्पिरास्रव ] लब्धयोऽपि, शेषास्तु भवन्तीति सामर्थ्यादवसीयते / अन्ये त्वेवमाहुःआमाँषधिः 1 खेलौषधिः 1 जल्लौषधिः 3 विमुदप्रश्रवणौषधिः 4 सर्वोषधिः 5 कोष्ठबुद्धिः 6 बीजबुद्धिः 7 पदानुसारी 8 सम्भिन्नश्रोता 9 ऋजुमतिः 10 विपुलमतिः 11 क्षीरास्रवः 12 अक्षीणमहानसत्वं 13 वैक्रियत्वं 14 जवाचारणत्वं 15 विद्याधरत्वं 16 अर्हत्त्वं 17 चक्रित्वं 18 बलदेवत्वं 19 वासुदेवत्वं 20 एता विंशतिरेव लब्धयो भव्यपुरुषाणां भवन्ति, एतदसम्यक् अन्यासामपि भवसिद्धिकयोग्यानां गणधरत्वपुलाकत्वादिलब्धीनां सद्भावात् , नाप्येता भवसिद्धिकयोग्या एववैक्रियविद्याधरत्वलब्धीनामामोषध्यादिलब्धीनामपि चाऽभव्यानामपि सम्भवात् // 75 // इदानीं मनःपर्यायज्ञानं लब्धि, // 93 // BREER
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy