________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1164 // 16 शतके उद्देशक: 2 सूत्रम् 566 जराशोको सत्रम५ इन्द्रदत्तोऽ वग्रह: दुरूहति 2 जामेव दिसंपाउन्भूए तामेव दिसंपडिगए।५भंतेत्ति भगवंगोयमेस० भ० महा०व० न०२ एवं वयासी-जंणं भंते! सक्के देविंदे देवराया तुझेणं एवं वदइ सच्चेणं एसमढे?, हंता सच्चे। सूत्रम् 567 // 'तेणं कालेणं'मित्यादि, एवं जहा ईसाणो तइयसए तहा सक्कोवि त्ति यथेशानस्तृतीयशते प्रथमोद्देशके राजप्रश्नीयातिदेशेनाभिहितस्तथा शक्रोऽपीह वाच्यः, सर्वथा साम्यपरिहारार्थं त्वाह- नवरमाभिओगे ण सद्दावईत्यादि तत्र किलेशानो महावीरमवधिनाऽवलोक्याभियोगिकान् देवान् शब्दयामास शक्रस्तु नैवम्, तथा तत्र लघुपराक्रमः पदात्यनीकाधिपतिर्नन्दिघोषाघण्टाताडनाय नियुक्त उक्त इह तु सुघोषाघण्टाताडनाय हरिणैगमेषी नियुक्त इति वाच्यम्, तथा तत्र पुष्पको विमानकारी उक्त इह तु पालकोऽसौ वाच्यः, तथा तत्र पुष्पक विमानमुक्तमिह तु पालकं वाच्यम्, तथा तत्र दक्षिणो निर्याणमार्ग उक्त इह तूत्तरो वाच्यः, तथा तत्र नन्दीश्वरद्वीप उत्तरपूर्वो रतिकरपर्वत ईशानेन्द्रस्यावतारायोक्त इह तु पूर्वदक्षिणोऽसौ वाच्यः नामगं सावेत्त त्ति स्वकीयं नाम श्रावयित्वा यदुताहं भदन्त! शक्रो देवराजो भवन्तं वन्दे नमस्यामि चेत्येवम् // 3 // उग्गहे त्ति अवगृह्यते। स्वामिना स्वीक्रियते यः सोऽवग्रहः देविंदोग्गहे य त्ति देवेन्द्रः शक्र ईशानो वा तस्यावग्रहो- दक्षिणं लोकार्द्धमुत्तरं वेति देवेन्द्रावग्रहः राओग्गहे त्ति राजा चक्रवर्ती तस्यावग्रहः- षट्खण्डभरतादिक्षेत्रं राजावग्रहः गाहावईउग्गहे त्ति गृहपतिर्माण्डलिको राजा तस्यावग्रहः- स्वकीयं मण्डलमिति गृहपत्यवग्रहः सागारियउग्गहे त्ति सहागारेण गेहेन वर्त्तत इति सागारः, स एव। सागारिकस्तस्यावग्रहो गृहमेवेति सागारिकावग्रहः साहम्मियउग्गहे त्ति समानेन धर्मेण चरन्तीति साधर्मिकाः साध्वपेक्षया साधव एव तेषामवग्रहः-तदाभाव्यं पञ्चक्रोशपरिमाणं क्षेत्रमृतुबद्धे मासमेकम्, वर्षासुचतुरोमासान्यावदिति साधर्मिकावग्रहः / एवमुपश्रुत्येन्द्रो यदाचख्यौ तदाह-जे इमे इत्यादि, एवं वयइत्ति एवं पूर्वोक्तम् / / 4 / / अहं उग्गहं अणुजाणामी इत्येवंरूपं वदति। // 1164 //