________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ | // 1161 // | 16 शतके उद्देशकः१ सूत्रम् 563 अयः कर्मणि क्रिया: रत्ति। सूत्रम् 565 / 16-1 // 'जीवे ण'मित्यादि, अहिगरणीवि त्ति अधिकरणं दुर्गतिनिमित्तं वस्तु तच्च विवक्षया शरीरमिन्द्रियाणि च तथा बाह्यो हलगन्त्र्यादिपरिग्रहस्तदस्यास्तीत्यधिकरणी जीवः अहिकरणंपि त्ति शरीराद्यधिकरणेभ्यः कथञ्चिदव्यतिरिक्तत्वादधिकरणं जीवः, एतच्च द्वयं जीवस्याविरतिं प्रतीत्योच्यते तेन यो विरतिमानसौ शरीरादिभावेऽपि नाधिकरणी नाप्यधिकरणमविरतियुक्तस्यैव शरीरादेरधिकरणत्वादिति // 5 // एतदेव चतुर्विंशतिदण्डके दर्शयति- नेरइए इत्यादि, अधिकरणी जीव इति प्रागुक्तम् // 6 // स च दूरवर्तिनाऽप्यधिकरणेन स्याद्यथा गोमानित्यतः पृच्छति जीवे ण मित्यादि, साहिगरणि त्ति सहसहभाविनाऽधिकरणेन शरीरादिना वर्त्तत इति समासान्तेन्विधिः साधिकरणी,संसारिजीवस्य शरीरेन्द्रियरूपाधिकरणस्य सर्वदैव सहचारित्वात्साधिकरणत्वमुपदिश्यते, शस्त्राद्यधिकरणापेक्षया तुस्वस्वामिभावस्य तदविरतिरूपस्य सहवर्त्तित्वाजीवः साधिकरणीत्युच्यते॥७॥ अत एव वक्ष्यति- अविरई पडुच्च त्ति, अत एव संयतानां शरीरादिसद्भावेऽप्यविरतेरभावान्न साधिकरणित्वम्, निरहिगरणि त्ति निर्गतमधिकरणमस्मादिति निरधिकरणी समासान्तविधेः, अधिकरणदूरवर्तीत्यर्थः, स चन भवति, अविरतेरधिकरणभूताया अदूरवर्त्तित्वादिति, अथवा सहाधिकरणिभिः पुत्रमित्रादिभिर्वर्त्तत इति साधिकरणी, कस्यापिजीवस्य पुत्रादीनामभावेऽपि तद्विषयविरतेरभावात्साधिकरणित्वमवसेयमत एव नो निरधिकरणीत्यपि मन्तव्यमिति॥ अधिकरणाधिकारादेवेदमाह- जीवे ण मित्यादि,आयाहिगरणि त्ति अधिकरणी कृष्यादिमानात्मनाऽधिकरणी, आत्माधिकरणी, ननु यस्य कृष्यादिनास्ति स कथमधिकरणीति?, अत्रोच्यते, अविरत्यपेक्षयेति, अत एवाविरतिं प्रतीत्येति वक्ष्यति, पराहिगरणि त्ति परतः परेषामधिकरणे प्रवर्त्तनेनाधिकरणी पराधिकरणी, तदुभयाहिगरणि त्ति तयोरात्मपरयोरुभयं तदुभयं // 1161 //