________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1147 // | 15 शतके सूत्रम् 559 गोशालकशते सिंहानीतौषधाद्दाहशमः पृथिवीशिलापट्टकवर्णकं यावत् स च-'तस्स णं असोगवरपायवस्स हेट्ठा ईसिखंधी समल्लीणे' इत्यादि मालुयाकच्छए त्ति मालुका नामैकास्थिका वृक्षविशेषास्तेषां यत्कक्षं गहनं तत्तथा। विउले त्ति शरीरव्यापकत्वात् रोगायंके त्ति रोगः पीडाकारी स चासावातश्च व्याधिरिति रोगातङ्कः उज्जल्ले त्ति उज्ज्वलः पीडापोहलक्षणविपक्षलेशेनाप्यकलङ्कितः, यावत्करणादिद दृश्यं तिउले त्रीन् मनोवाकायलक्षणानांस्तुलयति जयतीति त्रितुल: पगाढे प्रकर्षवान् कक्कसे कर्कशद्रव्यमिवानिष्ट इत्यर्थः कडुए तथैव चंडे रौद्रः तिव्वे सामान्यस्य झगितिमरणहेतुः दुक्खे त्ति दुःखो दुःखहेतुत्वात् दुग्गे त्ति क्वचित्तत्र च दुर्गमिवानभिभवनीयत्वात्, किमुक्तं भवति? दुरहियासे त्ति दुरधिसह्यः सोढुमशक्य इत्यर्थः दाहवक्तीए त्ति दाहो व्युत्क्रान्त उत्पन्नो यस्य स स्वार्थिककप्रत्यये दाहव्युत्क्रान्तिकः अवियाइन्ति अपिचेत्यभ्युच्चये आइन्ति वाक्यालङ्कारे लोहियवच्चाइंपित्ति लोहितवर्चास्यपि रुधिरात्मकपुरीषाण्यपि करोति किमन्येन पीडावर्णनेनेति भावः, तानि हि किलात्यन्तवेदनोत्पादके रोगे सति भवन्ति, चाउवण्णं ति चातुर्वण्यं ब्राह्मणादिलोकः, झाणंतरियाए त्ति एकस्य ध्यानस्य समाप्तिरन्यस्यानारम्भ इत्येषा ध्यानान्तरिका तस्यां मणोमाणसिएणं ति मनस्येव न बहिर्वचनादिभिरप्रकाशितत्वात् यन्मानसिकं दुःखं तन्मनोमानसिकं तेन दुवे कवोये त्यादेः श्रूयमाणमेवार्थ केचिन्मन्यन्ते,अन्ये त्वाहुः कपोतकः- पक्षिविशेषस्तद्वद्ये फले वर्णसाधर्म्यात्ते कपोते- कूष्माण्डे ह्रस्वे कपोते कपोतके ते च ते शरीरे वनस्पतिजीवदेहत्वात् कपोतकशरीरे, अथवा कपोतकशरीर इव धूसरवर्णसाधादेव कपोतकशरीरे, कूष्माण्डफले एव ते उपसंस्कृते संस्कृते तेहिं नो अट्ठो त्ति बहुपापत्वात् पारिआसिएत्ति परिवासितं ह्यस्तनमित्यर्थः, मज्जारकडए इत्यादेरपि केचित् श्रूयमाणमेवार्थं मन्यन्ते,अन्ये त्वाहुः- मार्जारो वायुविशेषः, तदुपशमनाय कृतं संस्कृतं मार्जारकृतम्, अपरे त्वाहुः-मार्जारो विरालिकाभिधानो वनस्पतिविशेषः, तेन कृतं भावितं यत्तत्तथा, किं तत्?, इत्याह // 1147 //