SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-३ // 1575 // 30 शतके उद्देशकः१ सूत्रम् 824 क्रियावाद्यादीनिसमव सरणानि अलेस्सा ण मित्यादि, अलेश्याः' अयोगिनः सिद्धाश्च ते च क्रियावादिन एव क्रियावादहेतुभूतयथाऽवस्थितद्रव्यपर्यायरूपार्थपरिच्छेदयुक्तत्वात्, इह च यानि सम्यग्दृष्टिस्थानान्यलेश्यत्वसम्यग्दर्शनज्ञानिनोसज्ज्ञोपयुक्तत्वावेदकत्वादीनि तानि नियमात् क्रियावादे क्षिप्यन्ते, मिथ्यादृष्टिस्थानानि तु मिथ्यात्वाज्ञानादीनि शेषसमवसरणत्रये // 4 // सम्मामिच्छादिट्ठी ण मित्यादि, सम्यग्मिथ्यादृष्टयो हिसाधारणपरिणामत्वान्नो आस्तिका नापिनास्तिकाः किन्त्वज्ञानविनयवादिन एव स्युरिति / ६॥पुढविकाइया ण मित्यादि, नो किरियावाई ति मिथ्यादृष्टित्वात्तेषामक्रियावादिनोऽज्ञानिकवादिनश्च ते भवन्ति, वादाभावेऽपि तद्वादयोग्यजीवपरिणामसद्भावात्, वैनयिकवादिनस्तु तेन भवन्ति तथाविध परिणामादिति, पुढविकाइयाणं जं अत्थि इत्यादि, पृथिवीकायिकानां यदस्ति सलेश्यकृष्णनीलकापोततेजोलेश्यकृष्णपाक्षिकत्वादि तत्र सर्वत्रापि मध्यमं समवसरणद्वयं वाच्यमिति, एवं जाव चउरिदियाण मित्यादि, ननु द्वीन्द्रियादीनां सासादनभावेन सम्यक्त्वं ज्ञानं चेष्यते तत्र क्रियावादित्वं युक्तं तत्स्वभावत्वादित्याशङ्कयाह सम्मत्तनाणेहिवी त्यादि, क्रियावादविनयवादौ हि विशिष्टतरे सम्यक्त्वादिपरिणामे स्यातां नसासादनरूपे इति भावः, जं अत्थितं भाणियव्वं ति, पञ्चेन्द्रियतिरश्चामलेश्याकषायित्वादिन प्रष्टव्यमसम्भवादिति भावः // 9 // जीवादिषु पञ्चविंशतौ पदेषु यद्यत्र समवसरणमस्ति तत्तत्रोक्तम्, अथ तेष्वेवायुर्बन्धनिरूपणायाह किरिये त्यादि, मणुस्साउयंपि पकरेइ देवाउयंपि पकरेति त्ति, तत्र ये देवा नारका वा क्रियावादिनस्ते मनुष्यायुः प्रकुर्वन्ति ये तु मनुष्याः पञ्चेन्द्रियतिर्यचो वा ते देवायुरिति // 10 // कण्हलेस्सा णंभंते! जीवे त्यादौ मणुस्साउयंपकरेंति त्ति यदुक्तं तन्नारकासुरकुमारादीनाश्रित्यावसेयम्, यतो ये सम्यग्दृष्टयो मनुष्याः पञ्चेन्द्रियतिर्यञ्चश्च ते मनुष्यायुर्न बध्नन्त्येव वैमानिकायुर्बन्धकत्वात्तेषामिति // 14 / अलेस्सा णं भंते! जीवा किरियावाई त्यादि, अलेश्याः- सिद्धा अयोगिनश्च, ते चतुर्विधमप्यायुर्न बध्नन्तीति, // 1575 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy