________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ // 1556 // बन्धित्वादिः मनुष्येष्वनुत्पत्त्या सिद्धिगमनाभावेन द्वितीयचतुर्थासम्भवाद्, मनुष्येष्वनुत्पत्तिश्चैतेषां सत्तममहिनेरइया तेउवाऊ अणंतरुव्वट्टा।न। 26 शतके य पावे माणुस्सं तहेवऽसंखाउआ सव्वे॥१॥ इति वचनादिति / बेइंदिए इत्यादि, विकलेन्द्रियाणां सर्वत्र प्रथमतृतीयभङ्गो, उद्देशकः१ यतस्तत उद्वृत्तानामानन्तर्येण सत्यपि मानुषत्वे निर्वाणाभावस्तस्मादवश्यं पुनस्तेषामायुषो बन्ध इति, यदुक्तं विकलेन्द्रियाणां सूत्रम् 814 जीवानासर्वत्र प्रथमतृतीयभङ्गाविति तदपवादमाह नवरं सम्मत्ते इत्यादि, सम्यक्त्वे ज्ञान आभिनिबोधिके श्रुते च विकलेन्द्रियाणां मायु:कर्मतृतीय एव, यतः सम्यक्त्वादीनि तेषां सासादनभावेनापर्याप्तकावस्थायामेव, तेषु चापगतेष्वायुषो बन्ध इत्यतः पूर्वभवे बद्धवन्तः सम्यक्त्वाद्यवस्थायांच न बध्नन्ति तदनन्तरं च भन्त्स्यन्तीति तृतीय इति / पंचिंदियतिरिक्खे त्यादि, पञ्चेन्द्रियतिरश्च कृष्णपाक्षिकपदे प्रथमतृतीयौ, कृष्णपाक्षिकौ ह्यायुर्बद्धा वा तदबन्धकोऽनन्तरमेव भवति तस्य सिद्धिगमना-योग्यत्वादिति / सम्मामिच्छत्ते तईयचउत्थ त्ति सम्यग्मिथ्यादृष्टेरायुषो बन्धाभावात्तृतीयचतुर्थावेव, भावितं चैतत्प्रागेवेति / सम्मत्ते इत्यादि, पञ्चेन्द्रियतिरश्चां सम्यक्त्वादिषु पञ्चसु द्वितीयवर्जा भङ्गा भवन्ति, कथं?, यदा सम्यग्दृष्ट्यादिः पञ्चेन्द्रिय-तिर्यगायुर्भवति तदा देवेष्वेव सच पुनरपि भन्त्स्यतीति न द्वितीयसम्भवः, प्रथमतृतीयौ तु प्रतीतावेव, चतुर्थः पुनरेवं- यथा मनुष्येषु बद्धायुरसौ सम्यक्त्वादि प्रतिपद्यतेऽनन्तरं च प्राप्तस्य चरमभवस्तदैवेति / मणुस्साणं जहा जीवाणं ति, इह विशेषमाह नवर मित्यादि, सम्यक्त्वसामान्यज्ञानादिषु पञ्चसु पदेषु मनुष्या द्वितीयविहीनाः, भावना चेह पञ्चेन्द्रियतिर्यक्सूत्रवदवसेयेति // 25 // // 814 ॥षड्डिंशतितमशते प्रथमः / / 26-1 // // 1556 // 0 सप्तममहीनारकास्तेजोवायवोऽनन्तरोद्वृत्ताः मानुष्यं न प्राप्नुवन्ति तथैव सर्वे स्युरसङ्ख्यातायुषः // 1 //