________________ 26 शतके उद्देशकः१ सूत्रम् 814 जीवाना // 1555 // मायुःकर्म बन्धित्वादिः श्रीभगवत्यङ्ग द्वितीयः, बन्धकालाभावं भाविबन्धकालंचापेक्ष्य तृतीयः, बद्धपरभविकायुषोऽनन्तरं प्राप्तव्यचरमभवस्य चतुर्थः, एवं सर्वत्र, श्रीअभय विशेषमाह नवर मित्यादि, लेश्यापदे कृष्णलेश्येषु नारकेषु प्रथमतृतीयौ, तथाहि- कृष्णलेश्यो नारको बद्धवान् बध्नाति वृत्तियुतम् भाग-३ भन्त्स्यति चेति प्रथमः प्रतीत एव, द्वितीयस्तु नास्ति, यतः कृष्णलेश्योनारकस्तिर्यसूत्पद्यते मनुष्येषु चाचरमशरीरेषु, कृष्णलेश्या हि पञ्चमनरकपृथिव्यादिषु भवति न च तत उद्वृत्तः सिद्ध्यतीति, तदेवमसौ नारकस्तिर्यगाद्यायुर्बद्धा पुनर्भन्त्स्यति अचरमशरीरत्वादिति / तथा कृष्णलेश्यो नारक आयुष्काबन्धकाले तन्न बध्नाति बन्धकाले तु भन्त्स्यतीति तृतीयः, चतुर्थस्तु तस्य नास्ति, आयुरबन्धकत्वस्याभावादिति / तथाकृष्णपाक्षिकनारकस्य प्रथमः प्रतीत एव, द्वितीयो नास्ति, यतः कृष्णपाक्षिको नारक आयुर्बद्धा पुनर्न भन्त्स्यतीत्येतन्नास्ति, तस्य चरमभवाभावात्, तृतीयस्तु स्यात्, चतुर्थोऽपि न, उक्तयुक्तरेवेति / सम्मामिच्छत्त तइयचउत्थ त्ति सम्यग्मिथ्यादृष्टेरायुषो बन्धाभावादिति / असुरकुमारदण्डके कण्हलेसेवि चत्तारि भंग त्ति नारकदण्डके कृष्णलेश्यनारकस्य किल प्रथमतृतीयावुक्ती, असुरकुमारस्य तु कृष्णलेश्यस्यापि चत्वार एव, तस्य हि मनुष्यगत्यवाप्ती सिद्धिसम्भवेन द्वितीयचतुर्थयोरपि भावादिति / पृथिवीकायिकदण्डके कण्हपक्खिए पढमतइया भंग त्ति, इह युक्ति : पूर्वोक्तैवानुसरणीया // 24 // तेजोलेश्यापदे तृतीयो भङ्गः, कथं?, कश्चिद्देवस्तेजोलेश्यः पृथिवीकायिकेषूत्पन्नः सचापर्याप्तकावस्थायां तेजोलेश्यो भवति, तेजोलेश्याद्धायांचापगतायामयुर्बध्नाति तस्मात्तेजोलेश्यः पृथिवीकायिक आयुर्बद्धवान् देवत्वे नबध्नाति तेजोलेश्यावस्थायां भन्स्यति च तस्यामपगतायामित्येवं तृतीयः, एवं आउक्काइयवणस्सइकाइयाणवि त्ति उक्तन्यायेन कृष्णपाक्षिकेषु प्रथमतृतीयौ भङ्गो, तेजोलेश्यायां च तृतीयभङ्गसम्भवस्तेष्वित्यर्थः, अन्यत्र तु चत्वारः, तेऊक्काइए इत्यादि, तेजस्कायिकवायुकायिकानां सर्वत्रैकादशस्वपि स्थानकेष्वित्यर्थः प्रथमतृतीयभङ्गो भवतस्तत उद्वृत्तानामनन्तरं // 1555 //