________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ | // 1553 // सूत्रम् 812-813 उपशमकाले न बध्नाति तत्प्रतिपतितस्तु भन्स्यति, चतुर्थस्तु क्षपकस्य, स ह्यायुर्बद्धवान् न बध्नाति न च भन्त्स्यतीति / 26 शतके सलेस्से इह यावत्करणात् कृष्णलेश्यादिग्रहस्तत्र यो न निर्वास्यति तस्य प्रथमः, यस्तु चरमशरीरतयोत्पत्स्यते तस्य द्वितीयः, उद्देशकः१ अबन्धकाले तृतीयः, चरमशरीरस्य च चतुर्थः, एवमन्यत्रापि / अलेस्से चरमो त्ति अलेश्य:- शैलेशीगतः सिद्धश्च, तस्य च वर्तमानभविष्यत्कालयोरायुषोऽबन्धकत्वाच्चरमो भङ्गः॥२०॥ कृष्णपाक्षिकस्य प्रथमस्तृतीयश्च संभवति, तत्र च प्रथमः | नारकादीनां पापज्ञानावप्रतीत एव, तृतीयस्त्वायुष्काबन्धकालेन बध्नात्येव, उत्तरकालंतु तद्भन्त्स्यतीत्येवं स्यात्, द्वितीयचतुर्थी तुतस्य नाभ्युपगम्येते, बन्धित्वादि कृष्णपाक्षिकत्वे सति सर्वथा तदभन्त्स्यमानताया अभाव इति विवक्षणात्, शुक्लपाक्षिकस्य सम्यग्दृष्टेश्चत्वारः, तत्र बद्धवान् पूर्वं बध्नाति च बन्धकाले भन्त्स्यति चाबन्धकालस्योपरीत्येकः 1 बद्धवान् बध्नाति न भन्स्यति च चरमशरीरत्व इति द्वितीयः 2 तथा बद्धवान् न बध्नात्यबन्धकाल उपशमावस्थायां वा भन्स्यति च पुनर्बन्धकाले प्रतिपतितो वेति तृतीयः३ चतुर्थस्तु क्षपकस्येति 4 / मिथ्यादृष्टिस्तु द्वितीयभङ्गके भन्त्स्यति चरमशरीरप्राप्तौ, तृतीये न बध्नात्यबन्धकाले चतुर्थे न बध्नात्यबन्धकालेन भन्स्यति चरमशरीरप्राप्ताविति ॥२१॥सम्मामिच्छे त्यादि, सम्यग्मिथ्यादृष्टिरायुर्न बध्नाति, चरमशरीरत्वे च कश्चिन्न भन्त्स्यत्यपीति कृत्वाऽन्त्यावेवेति, ज्ञानिनांचत्वारः प्राग्वद्भावयितव्याः, मनः पर्यायज्ञानिनो द्वितीयवर्जास्तत्रासौ पूर्वमायुर्बद्धवानिदानीं तु देवायुर्बध्नाति ततो मनुष्यायुर्भन्त्स्यतीति प्रथमः, बध्नाति न भन्स्यतीति न संभवति, अवश्य देवत्वे मनुष्यायुषो बन्धनादितिकृत्वा द्वितीयो नास्ति, तृतीय उपशमकस्य, सहिन बध्नाति प्रतिपतितश्च भन्त्स्यति, क्षपकस्य चतुर्थः॥ 22 // एतदेव दर्शयति मणपज्जवे त्यादि, केवलनाणे चरमो त्ति केवली ह्यायुर्न बध्नाति न च भन्स्यतीतिकृत्वा, नोसञोपयुक्तस्य भङ्गकत्रयं द्वितीयवर्जमनःपर्यायवद्धावनीयम्, एतदेवाह एएणमित्यादि, अवेदए इत्यादि, अवेदकोऽकषायी