________________ श्रीअभय वृत्तियुतम् भाग-३ // 1125 // 15 शतके सूत्रम् 550 गोशालकशते परावृत्त पहिारः यदपरं महागङ्गादि तत् सपूर्वापरम्, तेन भावप्रत्ययलोपदर्शनात्सपूर्वापरतयेत्यर्थः, तासिं दुविहे इत्यादि, तासां गङ्गादीनां गङ्गादिगतवालुकाकणादीनामित्यर्थः, द्विविध उद्धारः, उद्धरणीयद्वैविध्यात् सुहुमबोंदिकलेवरे चेव त्ति सूक्ष्मबोन्दीनि सूक्ष्माकाराणि कलेवराणि- असङ्ख्यातखण्डीकृतवालुकाकणरूपाणि यत्रोद्धारे स तथा वायरबोंदिकलेवरे चेव त्ति (ग्रन्थाग्रं 14000) बादरबोन्दीनि बादराकाराणि, कलेवराणि वालुकाकणरूपाणि यत्र तथा, ठप्पे त्ति न व्याख्येय इतरस्तु व्याख्येय इत्यर्थः अवहाय त्ति अपहाय त्यक्त्वा से कोढे त्तिस कोष्ठो गङ्गासमुदायात्मकः खीणे त्ति क्षीणःसचावशेषसद्भावेऽप्युच्यते / यथा क्षीणधान्यं कोष्ठागारमत उच्यते नीरए त्ति नीरजाः स च तद्भूमिगतरजसामप्यभावे उच्यते इत्याह- निल्लेवे त्ति निर्लेपः भूमिभित्त्यादिसंश्लिष्टसिकतालेपाभावात्, किमुक्तं भवति?- निष्ठितः निरवयवीकृत इति सेत्तं सरे त्ति अथ तत्तावत्कालखण्डं सरःसङ्गं भवति मानससझं सर इत्यर्थः सरप्पमाणे त्ति सर एवोक्तलक्षणं प्रमाणं वक्ष्यमाणमहाकल्पादेर्मानं सरःप्रमाणं महामाणसे त्ति मानसोत्तरम्, यदुक्तं चतुरशीतिर्महाकल्पशतसहस्राणीति तत्प्ररूपितम्, अथ सप्तानां दिव्यादीनां प्ररूपणायाहअणंताओ संजूहाओ त्ति अनन्तजीवसमुदायरूपानिकायात् चयं चइत्त त्ति च्यवं च्युत्वा च्यवनं कृत्वा, चयं वा देहं 'चइत्त'त्ति त्यक्त्वा उवरिल्ले त्ति उपरितनमध्यमाधस्तनानां मानसानां सद्भावात् तदन्यव्यवच्छेदायोपरितन इत्युक्तं माणसे त्ति गङ्गादिप्ररूपणतः प्रागुक्तस्वरूपे सरसि सरःप्रमाणायुष्कयुक्त इत्यर्थः, संजूहे त्ति निकायविशेषे देवे उववज्जइ त्ति प्रथमो दिव्यभवः सज्ञिगर्भसङ्ख्यासूत्रोक्त एव, एवं त्रिषु मानसेषु संयूथेष्वाद्यसंयूथसहितेषु चत्वारि संयूथानि त्रयश्च देवभावाः, तथा मानसोत्तरे त्ति महामानसे पूर्वोक्तमहाकल्पप्रमितायुष्कवति, यच्च प्रागुक्तं चतुरशीतिं महाकल्पान् शतसहस्राणि क्षपयित्वेति तत्प्रथममहामानसापेक्षयेति द्रष्टव्यम्, अन्यथा त्रिषु महामानसेषु बहुतराणि तानि स्युरिति, एतेषु चोपरिमादिभेदास्त्रिषु // 1125 //