SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1545 // 25 शतके उद्देशक: 8-9-10 11-12 सूत्रम् उत्प्लोतव्यं मयेत्येवंरूपाध्यवसायनिर्वर्तितेन करणोपायेणं ति उत्प्लवनलक्षणं यत्करणं क्रियाविशेषः, स एवोपायः स्थानान्तरप्राप्तौ हेतुः करणोपायस्तेन सेयकाले त्ति एष्यति काले विहरतीति योगः, किं कृत्वा? इत्याह तं ठाणं ति यत्र स्थाने स्थितस्तत्स्थानं विप्रजहाय प्लवनतस्त्यक्त्वा पुरिमं ति पुरोवर्तिस्थानं उपसम्पद्य विहरतीति योगः एवामेव तेजीव त्ति दार्शन्तिकयोजनार्थः, किमुक्तं भवति?, इत्याह पवओविव पवमाण त्ति, अज्झवसाणनिव्वत्तिएणं ति तथाविधाध्यवसायनिर्वर्तितेन करणोवाएणं ति क्रियते विविधाऽवस्था जीवस्यानेन क्रियते वा तदिति करणं कर्म प्लवनक्रियाविशेषो वा करणम्, करणमिव करणं स्थानान्तरप्राप्तिहेतुतासाधर्म्यात्कमैव तदेवोपायः करणोपायस्तेन तं भवंति मनुष्यादिभवं पुरिमं भवंति प्राप्तव्यं नारकभवमित्यर्थः अज्झवसाणजोगनिव्वत्तिएणं ति अध्यवसानं जीवपरिणामः, योगश्च मनःप्रभृतिव्यापारस्ताभ्यां निर्वर्तितो यः स तथा तेन करणोवाएणं ति करणोपायेन मिथ्यात्वादिना कर्मबन्धहेतुनेति ॥१॥॥८०५॥पञ्चविंशतितमशतेऽष्टमः // 25-8 // 806809 // एवं नवमदशमैकादशद्वादशाः॥२५-(९-१२)॥पञ्चविंशतितमं शतं वृत्तितः परिसमाप्तमिति // 25 // क्वचिट्टीकावाक्यं क्वचिदपि वचश्चौर्णमनघं, क्वचिच्छाब्दी वृत्तिं क्वचिदपि गमवाच्यविषयम् / क्वचिद्विद्वद्वाचं क्वचिदपि महाशास्त्रमपरं, समाश्रित्य व्याख्या शत इह कृता दुर्गमगिराम्॥१॥ 805-809 नारकभव्यादीनामुत्पत्तिरीतिः ॥इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ पञ्चविंशं शतकं समाप्तम्॥ // 1545 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy