SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् 25 शतके उद्देशक:७ सूत्रम् 803-804 ध्यानानि व्युत्सर्ग: भाग-३ // 1542 // तत्र तया वा रुचिः श्रद्धानम्, साऽऽज्ञारुचिः निसग्गरुइ त्ति स्वभावत एव तत्त्वश्रद्धानं सुत्तरुइ त्ति आगमात्तत्त्वश्रद्धानं ओगाढरुइ त्ति अवगाढनमवगाढम्, द्वादशाङ्गावगाहो विस्ताराधिगमस्तेन रुचिः, अथवा 'ओगाढ'त्ति साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद्रुचिरवगाढरुचिः,आलंबण त्ति धर्मध्यानसौधशिखरारोहणार्थं यान्यालम्ब्यन्ते तान्यालम्बनानि वाचनादीनि, अणुप्पेह त्ति धर्मध्यानस्य पश्चात्प्रेक्षणानि-पर्यालोचनान्यनुप्रेक्षाः॥१४७॥ पुहुत्तवियक्के सवियारे त्ति पृथक्त्वेन- एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को विकल्पः, पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत्पृथक्त्ववितर्कम्, तथा विचार:- अर्थाद्व्यञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां चान्यस्मादन्यस्मिन् विचरणम्, सह विचारेण यत्तत्सविचारि, ®सर्वधनादित्वादिन् सामासान्तः१ एगत्तवियक्के अवियार त्ति एकत्वेन- अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बन-2 तयेत्यर्थः, वितर्क:- पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपोवा यस्य तदेकत्ववितर्कम्, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यस्मादन्यत्र यस्य तदविचारीति 2 सुहुमकिरिए अणियट्टि त्ति सूक्ष्मा क्रिया यत्र निरुद्धवाग्मनोयोगत्वेसत्यर्द्धनिरुद्धकाययोगत्वात्तत्सूक्ष्मक्रियं न निवर्त्तत इत्यनिवर्त्तिवर्द्धमानपरिणामत्वात्, एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति 3 समुच्छिन्नकिरिए अप्पडिवाइ त्ति समुच्छिन्ना क्रिया-कायिक्यादिका शैलेशीकरणनिरुद्धयोगत्वेन यस्मिंस्तत्तथा, अप्रतिपाति- अनुपरतस्वभावम्, अव्वहे त्ति देवाद्युपसर्गजनितं भयं चलनं वा व्यथा तदभावोऽव्यथं असंमोहे , त्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य- मूढताया निषेधोऽसंमोहः विवेगे त्ति देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनंबुद्धया पृथक्करणं विवेकः 4 विउसग्गे'त्ति व्युत्सर्गो-निस्सङ्गतया देहोपधित्याग: अणंतवत्तियाणुप्पेह त्ति भवसन्तानस्यानन्तवृत्तिताऽनुचिन्तनं विप्परिणामाणुप्पेह त्ति वस्तूनां प्रतिक्षणं विविधपरिणामगमनानुचिन्तनं असुभाणुप्पेह // 154
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy