________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् 25 शतके उद्देशकः७ सूत्रम् 803-804 ध्यानानि व्युत्सर्गः भाग-३ // 1539 // स चासौ प्रशान्तश्चान्तर्वृत्त्या यः स तथा संहृतं- अविक्षिप्ततया धृतं पाणिपादं येन स तथा ततः कर्मधारयः कुम्मो इव गुत्तिदिए त्ति गुप्तेन्द्रियो गुप्त इत्यर्थः, क इव?, कूर्म इव, कस्यामवस्थायामित्यत एवाह अल्लीणे पल्लीणे त्ति आलीन ईषल्लीनः पूर्व प्रलीनः पश्चात् प्रकर्षेण लीनस्ततः कर्मधारयः॥१२२॥ सोमिलुद्देसए त्ति अष्टादशशतस्य दशमोद्देशके, एतेन च यत्सूचितं तत्तत एवावधार्यम् / / 123 // पायच्छित्ते त्ति इह प्रायश्चित्तशब्देनापराधशुद्धिरुच्यते, वेयावच्चं ति वैयावृत्त्यं- भक्तपानादिभिरुपष्टम्भः॥१२४॥ नाणविणए त्ति ज्ञानविनयो- मत्यादिज्ञानानां श्रद्धानभक्तिबहुमानतदृष्टार्थभावनाविधिग्रहणाभ्यासरूप: दसणविणए इत्ति दर्शनविनयः-सम्यग्दर्शनगुणाधिकेषु शुश्रूषादिरूपः चरित्तविणए त्तिसामायिकादिचारित्राणां सम्यक्श्रद्धानकरणप्ररूपणानि लोगोवयारविणए त्ति लोकानामुपचारो व्यवहारः पूजा वा तद्रूपो यो विनयः सः॥१२५ // तथा सुस्सूसणाविणए त्ति शुश्रूषणा-सेवा सैव विनयः शुश्रूषणाविनयः अणच्चासायणाविणए त्ति अत्याशातना- आशातना तन्निषेधरूपो विनयोनत्याशातनाविनयः॥ 128 // किरियाए अणच्चासायणाए त्ति इह क्रिया- अस्ति परलोकोऽस्त्यात्माऽस्ति च सकलक्लेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिका गृह्यते संभोगस्स अणच्चासायणाए त्ति सम्भोगस्य-समानधार्मिकाणां परस्परेण भक्तादिदानग्रहणरूपस्यानत्याशातना-विपर्यासवत्करणपरिवर्जनं भत्तिबहुमाणेणं ति इह णंकारोवाक्यालङ्कारे भक्त्या सह बहुमानो भक्तिबहुमानः भक्तिश्चेह बाह्या परिजुष्टिर्बहुमानश्च-आन्तरः प्रीतियोगः वन्नसंजलणय त्ति सद्भूतगुणवर्णनेन यशोदीपनं. पसत्थमणविणए त्ति प्रशस्तमन एव प्रवर्त्तनद्वारेण विनयः- कर्मापनयनोपायः प्रशस्तमनोविनयः, अप्रशस्तमन एव निवर्त्तनद्वारेण विनयोऽप्रशस्तमनोविनयः॥ 130 / / अपावए ति सामान्येन पापवर्जितं विशेषतः पुनरसावधं-क्रोधाद्यवधवर्जितं अकिरिए त्ति कायिक्यादिक्रियाऽभिष्वङ्गवर्जितं निरुवक्केसं ति स्वगतशोकाधुपक्लेशवियुक्तं अणण्हयकरे त्ति अनाश्रवकरं प्राणाति // 1539 //