SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ वृत्तियुतम् 25 शतके उद्देशक:७ सूत्रम् 803-804 ध्यानानि व्युत्सर्गः भाग-३ // 1538 // श्रीभगवत्यङ्ग स्वदनता परिभोजनमिति, चू| तूक्तं 'जं वत्थाइ धारेइ तंमिवि ममत्तं नत्थि, जड़ कोइ मग्गइ तस्स देई'त्ति, अप्पकोहे त्ति श्रीअभय अल्पक्रोधः पुरुषोऽवमोदरिको भवत्यभेदोपचारादिति अप्पसद्दे त्ति अल्पशब्दो रात्र्यादावसंयतजागरणभयात् अप्पझंझे त्ति इह झञ्झा-विप्रकीर्णा कोपविशेषादूचनपद्धतिः, चूयाँ तूक्तं 'झंझा अणत्थयबहुप्पलावित्तं' अप्पतुमंतुमे त्ति तुमन्तुमोहृदयस्थः कोपविशेष एव, दव्वाभिग्गहचरए त्ति भिक्षाचर्यायास्तद्वतश्चाभेदविवक्षणाव्याभिग्रहचरको भिक्षाचर्येत्युच्यते, द्रव्याभिग्रहाश्च लेपकृतादिद्रव्यविषयाः जहा उववाइए त्ति, अनेनेदं सूचितं खेत्ताभिग्गहचरए कालाभिग्गहचरए भावाभिग्गहचरए। इत्यादि, सुद्धेसणिए त्ति शुद्धषणा- शङ्कितादिदोषपरिहारतः पिण्डग्रहस्तद्वांश्च शुद्धषणिकः संखादत्तिए त्ति सङ्ख्याप्रधानाः पञ्चषादयो दत्तयो भिक्षाविशेषा यस्य स तथा, जहा उववाइए त्ति अनेनेदं सूचितं आयंबिलिए आयामसित्थभोई अरसाहारे' इत्यादि / 116 / / ठाणाइए त्ति स्थानं कायोत्सर्गदिकमतिशयेन ददाति गच्छतीति वा स्थानातिदः स्थानातिगो वा, जहा उववाइए त्ति, अनेनेदं सूचितं पडिमट्ठाई वीरासणिए नेसज्जिए' इत्यादि, इह च प्रतिमाः मासिक्यादयः, वीरासनंच-सिंहासननिविष्टस्य भून्यस्तपादस्य सिंहासनेऽपनीते यादृशमवस्थानम्, निषद्या च-पुताभ्यां भूमावुपवेशनम् // 117 // सोइंदियविसयप्पयारनिरोहो वत्ति श्रोत्रेन्द्रियस्य यो विषयेषु- इष्टानिष्टशब्देषु प्रचारः श्रवणलक्षणा प्रवृत्तिस्तस्य यो निरोधो निषेधः स तथा शब्दानां श्रवणवर्जनमित्यर्थः सोइंदियविसए इत्यादि श्रोत्रेन्द्रियविषयेषु प्राप्तेषु च अर्थेषु इष्टानिष्टशब्देषु रागद्वेषविनिग्रहो रागद्वेषनिरोधः॥११९॥मणस्स वा एगत्तीभावकरणंमनसोवा ‘एगत्त'त्ति विशिष्टैकाग्रत्वेनैकता तद्रूपस्य भावस्य करणमेकताभावकरणम्, आत्मना वा सह यैकता-निरालम्बनत्वं तद्रूपोभावस्तस्य करणं यत्तत्तथा वईए वा एगत्तीभावकरणं ति वाचो वा विशिष्टैकाग्रत्त्वेनैकतारूपभावकरणमिति // 121 // सुसमाहियपसंतसाहरियपाणिपाए त्ति सुष्टुसमाहितः- समाधिप्राप्तो बहिर्वृत्त्या / // 1538 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy