________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् 25 शतके उद्देशक:७ सूत्रम् 799 प्रतिसेवादि भाग-३ // 1531 // चारजातमालोचयति,यः किल सूक्ष्मं तदालोचयति स कथं बादरं तन्नालोचयतीत्येवंरूपभावसम्पादनायाऽऽचार्यस्येति, छन्नं त्ति छन्नं प्रतिच्छन्नं प्रच्छन्नम्, अतिलज्जालुतयाऽव्यक्तवचनं यथा भवति, एवमालोचयति यथाऽऽत्मनैव शृणोति, सद्दाउलयं ति शब्दाकुलम्, बृहच्छब्दं यथा भवत्येवमालोचयति, अगीतार्थान् श्रावयन्नित्यर्थः, बहुजण त्ति बहवोजना आलोचनागुरवो यत्रालोचने तद्बहुजनं यथा भवत्येवमालोचयति, एकस्याप्यपराधस्य बहुभ्यो निवेदनमित्यर्थः, अव्वत्त त्ति अव्यक्तोऽगीतार्थः, तस्मा आचार्याय यदालोचनं तदप्यव्यक्तमित्युच्यते, तस्सेवि त्ति यमपराधमालोचयिष्यति तमेवासेवते यो गुरुः स तत्सेवी तस्मै यदालोचनं तदपि तत्सेवति, यतः समानशीलाय गरुवे सुखेनैव विवक्षितापराधो निवेदयितुं शक्यत इति तत्सेविने निवेदयतीति / / 98 / / जाइसंपन्ने इत्यादि, नन्वेतावान् गुणसमुदाय आलोचकस्य कस्मादन्विष्यते? इति, उच्यते,जातिसम्पन्न प्रायोऽकृत्यं न करोत्येव कृतंच सम्यगालोचयतीति, कुलसम्पन्नोऽङ्गीकृतप्रायश्चित्तस्य वोढा भवति, विनयसम्पन्नो वन्दनादिकाया 2 आलोचनासामाचार्याः प्रयोक्ता भवतीति, ज्ञानसम्पन्नः कृत्याकृत्यविभागं जानाति, दर्शनसम्पन्नः प्रायश्चित्ताच्छुद्धिं श्रद्धत्ते, चारित्रसम्पन्नः प्रायश्चित्तमङ्गीकरोति, क्षान्तो- गुरुभिरुपालम्भितो न कुप्यति, दान्तो- दान्तेन्द्रियतया शुद्धिं सम्यग् वहति, अमायी- अगोपयन्नपराधमालोचयति, अपश्चात्तापी आलोचितेऽपराधे पश्चात्तापमकुर्वनिर्जराभागीभवतीति // 99 // आयारव मित्यादि, तत्र ‘आचारवान्' ज्ञानादिपञ्चप्रकाराचारयुक्तः आहारवं ति आलोचितापराधानामवधारणावान् ववहारवं ति आगमश्रुतादिपञ्चप्रकारव्यवहाराणामन्यतमयुक्तः उव्वीलए त्ति अपव्रीडकः- लज्जयाऽतीचारान् गोपायन्तं विचित्रवचनैविलजीकृत्य सम्यगालोचनां कारयतीत्यर्थः पकुव्वए त्ति आलोचितेष्वपराधेषु प्रायश्चित्तदानतो विशुद्धिं कारयितुं समर्थः अपरिस्सावि त्ति आलोचकेनालोचितान् दोषान् योऽन्यस्मै न कथयत्यसावपरिश्रावी निज्जवए त्ति निर्यापकः असमर्थस्य