________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1530 // 25 शतके उद्देशक:७ सूत्रम् 799 प्रतिसेवादि अपच्छाणुतावी 10 / 100 अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तए, तंजहा-आयारवं१ आहारवं श्ववहारवं 3 उव्वीलए 4 पकुव्वए५ अपरिस्सावी 6 निजवए 7 अवायदंसी ८॥सूत्रम् 799 // दसविहे त्यादि, दप्पप्पमायऽणाभोगे त्ति, इह सप्तमी प्रत्येकं दृश्या, तेन द सति प्रतिसेवा भवति, दर्पश्च वल्गनादिः, तथा प्रमादे सति, प्रमादश्च मद्यविकथादिः, तथाऽनाभोगे सति, अनाभोगश्चाज्ञानम्, आतुरे त्ति आतुरत्वे सति, आतुरश्च बुभुक्षापिपासादिबाधितः, आवईय त्ति आपदिसत्याम्,आपच्च द्रव्यादिभेदेन चतुर्विधा, तत्र द्रव्यापत् प्रासुकादिद्रव्यालाभः, क्षेत्रापत् कान्तारक्षेत्रपतितत्वम्, कालापत् दुर्भिक्षकालप्राप्तिः, भावापद्ग्लानत्वमिति, संकिण्णे त्ति सङ्कीर्णे स्वपक्षपरपक्षव्याकुले क्षेत्रे सति, संकियं त्ति क्वचित्पाठस्तत्र च शङ्किते- आधाकर्मादित्वेन शङ्कितभक्तादिविषये, निशीथपाठे तु तिंतिणे त्यभिधीयते, तत्र च तिन्तिणत्वेसति, तच्चाहाराद्यलाभेसखेदं वचनम्, सहसक्कारे त्ति सहसाकारे सति-आकस्मिकक्रियायाम, यथा च पुब्बिं अपासिऊणं पाए छूढमि जं पुणो पासे। न तरइ नियत्तेउं पायं सहसाकरणमेयं // 1 // इति, भयप्पओसा यत्ति भयात्सिंहादिभयेन प्रतिसेवाभवति, तथा प्रद्वेषाच्च, प्रद्वेषश्च क्रोधादिः,वीमंस त्ति विमर्शात् शिक्षकादिपरीक्षणादिति, एवं कारणभेदेन दश प्रतिसेवाभेदा भवन्ति // 97 // आकंपइत्ता गाहा, आकम्प्य, आवर्जितःसन्नाचार्यः स्तोकं प्रायश्चित्तं मे दास्यतीतिबुद्ध्याऽऽलोचनाऽऽचार्यं वैयावृत्त्यकरणादिनाऽऽवयं यदालोचनमसावालोचनादोषः अणुमाणइत्त त्ति अनुमान्य, अनुमानं कृत्वा लघुतरापराधनिवेदनेन मृदुदण्डादित्वमाचार्यस्याकालय्य यदालोचनमसौ तद्दोषः, एवं जं दिळं त्ति यदाचार्यादिना दृष्टमपराधजातं तदेवालोचयति बायरं वत्ति बादरमेवातिचारजातमालोचयति न सूक्ष्मंतत्रावज्ञापरत्वात्, सुहुमं वत्ति सूक्ष्ममेवाति 0 पूर्वमदृष्ट्वा पादे त्यक्ते (प्रसारिते) यत्पुनः पश्यति न च पादं निवर्तयितुं शक्नोति एतत्सहसाकरणम् // 1 // // 1530 //