________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1528 // सामायि तज्जीवितान्तेऽन्यो वर्षशतायुरेव ततः परतो न तस्य प्रतिपत्तिरस्तीत्येवं द्वे वर्षशते,तयोश्च प्रत्येकमेकोनत्रिंशति वर्षेषु गतेषु 25 शतके तत्प्रतिपत्तिरित्येवमष्टपञ्चाशता वर्षेन्यूने ते इति देशोने इत्युक्तम्, एतच्च टीकाकारव्याख्यानम्, चूर्णिकारव्याख्यानमप्येवमेव, उद्देशकः 7 सूत्रम् 798 किन्त्ववसर्पिण्यन्तिमजिनापेक्षमिति विशेषः, उक्कोसेणं देसूणाओ दो पुव्वकोडीओत्ति, कथं?, अवसर्पिण्यामादितीर्थकर-8 स्यान्तिके पूर्वकोट्यायुः कश्चित्परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तज्जीवितान्तेऽन्यस्तादृश एव तत्प्रतिपन्न इत्येवं कादिसंयताः पूर्वकोटीद्वयं तथैव देशोनंपरिहारविशुद्धिकसंयतत्वंस्यादिति // 79 // अन्तरद्वारे छेओवट्ठावणिए त्यादौ जहन्नेणं तेवढिं वाससहस्साई ति, कथं?,अवसर्पिण्यांदुष्षमायावच्छेदोपस्थापनीयं प्रवर्तते ततस्तस्या एवैकविंशतिवर्षसहस्रमानायामेकान्तदुष्षमायामुत्सर्पिण्याश्चैकान्तदुष्षमायांच तत्प्रमाणायामेव तदभावः स्यादेवं चैकविंशतिवर्षसहस्रमानत्रयेण त्रिषष्टिवर्षसहस्राणामन्तरमिति, उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ ति किलोत्सर्पिण्यां चतुर्विंशतितमजिनतीर्थे छेदोपस्थापनीयं प्रवर्तते ततश्च सुषमदुष्षमादिसमात्रये क्रमेण द्वित्रिचतुःसागरोपमकोटीकोटीप्रमाणेऽतीते अवसर्पिण्याश्चैकान्तसुषमादित्रये क्रमेण चतुस्त्रिद्विसागरोपमकोटी 2 प्रमाणेऽतीतप्राये, प्रथमजिनतीर्थे छेदोपस्थापनीयं प्रवर्त्तत इत्येवं यथोक्तं छेदोपस्थापनीयस्यान्तरं भवति, यच्चेह किञ्चिन्न पूर्यते यच्च पूर्वसूत्रेऽतिरिच्यते तदल्पत्वान्न विवक्षितमिति, परिहारविसुद्धियस्से त्यादि, परिहारविशुद्धिकसंयतस्यान्तरंजघन्यं चतुरशीतिवर्षसहस्राणि, कथं?, अवसर्पिण्या दुष्षमैकान्तदुष्षमयोरुत्सर्पिण्याश्चैकान्तदुष्षमादुष्षमयोः प्रत्येकमेकविंशतिवर्षसहस्रप्रमाणत्वेन चतुरशीतिवर्षसहस्राणांभवति तत्र च परिहारविशुद्धिकं न भवतीतिकृत्वा जघन्यमन्तरं 8 // 1528 // तस्य यथोक्तं स्यात्, यश्चेहान्तिमजिनानन्तरो दुष्षमायां परिहारविशुद्धिककालो यश्चोत्सर्पिण्यास्तृतीयसमायां परिहारविशुद्धिकप्रतिपत्तिकालात्पूर्वः कालो नासौ विवक्षितोऽल्पत्वादिति, उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ त्ति