________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1509 // 25 शतके उद्देशकः 6 सूत्रम् 779-780 पुलाकादि कालान्तरे सूत्रम् 781 पुलाकादे:समुद्धातक्षेत्रावगाहभावा: पुलाया ण मित्यादि, जहन्नेणं एक्कं समयं ति, कथं?, एकस्य पुलाकस्य योऽन्तर्मुहूर्त्तकालस्तस्यान्त्यसमयेऽन्यः पुलाकत्वं प्रतिपन्न इत्येवंजघन्यत्वविवक्षायांद्वयोः पुलाकयोरेकत्र समये सद्भावो द्वित्वे च जघन्यं पृथक्त्वं भवतीति / उक्कोसेणं अंतोमुहत्तं ति यद्यपि पुलाका उत्कर्षत एकदा सहस्रपृथक्त्वपरिमाणाः प्राप्यन्ते तथाऽप्यन्तर्मुहूर्त्तत्वात्तदद्धाया बहुत्वेऽपि तेषामन्तर्मुहूर्तमेव तत्कालः, केवलंबहूनां स्थितौ यदन्तर्मुहूर्त तदेकपुलाकस्थित्यन्तर्मुहूर्तान्महत्तरमित्यवसेयम्, बकुशादीनां तु स्थितिकालः सर्वाद्धा, प्रत्येकं तेषां बहुस्थितिकत्वादिति // 140 // नियंठा जहा पुलायत्ति ते चैवं-जघन्यत एकंसमयमुत्कर्षतोऽन्तर्मुहूर्त्तमिति॥ 141 // // 779 // __ अन्तरद्वारे पुलागस्सण मित्यादि, तत्र पुलाकः पुलाको भूत्वा कियता कालेन पुलाकत्वमापद्यते?,उच्यते, जघन्यतोऽन्तमुहूर्त स्थित्वा पुनः पुलाक एव भवति, उत्कर्षतः पुनरनन्तेन कालेन पुलाकत्वमाप्नोति, कालानन्त्यमेव कालतो नियमयन्नाह अणंताओ इत्यादि, इदमेव क्षेत्रतोऽपि नियमन्नाह खेत्तओ इति, सचानन्तः कालः क्षेत्रतो मीयमानः किंमानः? इत्याह अवड्ड मित्यादि तत्र पुद्गलपरावर्त एवं श्रूयते-किल केनापि प्राणिना प्रतिप्रदेशं म्रियमाणेन मरणैर्यावता कालेन लोकः समस्तोऽपि व्याप्यते तावता क्षेत्रतः पुद्गलपरावर्तो भवति, स च परिपूर्णोऽपि स्यादत आह अपार्द्धं अपगतार्द्धम मात्रमित्यर्थः, अपार्टोऽप्यर्द्धतः पूर्णः स्यादत आह देसूणं ति देशेन- भागेन न्यूनमिति // 142 / / सिणायस्स नत्थि अंतरं ति प्रतिपाताभावात् / / 143 / / एकत्वापेक्षया पुलाकत्वादीनामन्तरमुक्तमथ पृथक्त्वापेक्षया तदेवाह पुलायाण मित्यादि, व्यक्तम् // 144 / / / 780 // समुद्धातद्वारे 147 पुलागस्सणं भंते! कति समुग्घाया पन्नत्ता?, गोयमा! तिन्नि समुग्घाया प०, तं० वेयणासमुग्घाए कसायस० मारणंतियस०, // 1509 // सो .