________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1507 // 777-778 पुलाकादेर्भवाकर्षों त्यादि, इह कश्चिदेकत्र भवे बकुशत्वमवाप्य कषायकुशीलत्वादि च सिद्ध्यति, कश्चित्त्वेकत्रैव बकुशत्वमवाप्य भवान्तरे / 25 शतके तदनवाप्यैव सिद्ध्यतीत्यत उच्यते जहन्नेणं एक्कं भवग्गहणं ति, उक्कोसेणं अट्ठति किलाष्टौ भवग्रहणान्युत्कृष्टतया चरणमात्र उद्देशकः६ सूत्रम् मवाप्यते, तत्र कश्चित्तान्यष्टौ बकुशतया पर्यन्तिमभवे सकषायत्वादियुक्तया, कश्चित्तु प्रतिभवं प्रतिसेवाकुशीलत्वादियुक्तया पूरयतीत्यत उच्यते उक्कोसेणं अट्ठत्ति // 126 / / / / 777 // अथाकर्षद्वारम्, तत्राकर्षणमाकर्षश्चारित्रस्य प्राप्तिरिति / एगभवग्गहणिय त्ति एकभवग्रहणे ये भवन्ति सयग्गसो त्ति शतपरिमाणेनेत्यर्थः, शतपृथक्त्वमिति भावना, उक्तञ्च तिण्ह सहस्सपुहत्तं सयपुहुत्तं च होति विरईए।त्ति / उक्कोसेणं दोन्नि त्ति एकत्र भवे वारद्वयमुपश्रेणिकरणादुपशमनिर्ग्रन्थत्वस्य द्वावाकर्षाविति // 128-130 // पुलागस्से त्यादौ नाणाभवग्गहणिय त्ति नानाप्रकारेषु भवग्रहणेषु ये भवन्तीत्यर्थः, जहन्नेणं दोन्नि त्ति एक आकर्ष एकत्र भवे द्वितीयोऽन्यत्रेत्येवमनेकत्र भव आकर्षों स्याताम्, उक्कोसेणं सत्त त्ति पुलाकत्वमुत्कर्षतस्त्रिषु भवेषु स्यादेकत्र च तदुत्कर्षतो वारत्रयं भवति ततश्च प्रथमभव एक आकर्षोऽन्यत्र च भवद्वये त्रयस्त्रय इत्यादिभिर्विकल्पैः सप्त ते भवन्तीति // 132 / / बउसे त्यादि, उक्कोसेणं सहस्सग्गसो त्ति बकुशस्याष्टौ भवग्रहणान्युत्कर्षत उक्तानि, एकत्र च भवग्रहणे उत्कर्षत आकर्षाणांशतपृथक्त्वमुक्तम्, तत्र च यदाऽष्टास्वपिन भवग्रहणेषूत्कर्षतो नव प्रत्येकमाकर्षशतानि तदा नवानांशतानामष्टाभिर्गुणनात्सप्त सहस्राणि शतद्वयाधिकानि भवन्तीति / 133 // नियंठस्से त्यादौ उक्कोसेणं पंचत्ति निर्ग्रन्थस्योत्कर्षतस्त्रीणि भवग्रहणान्युक्तानि, एकत्र च भवे द्वावाकर्षावित्येवमेकत्र // 1507 // द्वावन्यत्र च द्वावपरत्र चैकं क्षपकनिर्ग्रन्थत्वाकर्ष कृत्वा सिद्ध्यतीति कृत्वोच्यते पञ्चेति // 134 // / // 778 // कालद्वारे ॐ त्रयाणां सहस्रपृथक्त्वं विरतेः पुनः शतपृथक्त्वं भवति /