SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1499 // 25 शतके उद्देशक: 6 सूत्रम् 765-768 पुलाकादेः पर्यवयोगकषायाः त्ति पुलाकः पुलाकापेक्षया यथाऽभिहितस्तथा कषायकुशीलापेक्षयाऽपि वाच्य इत्यर्थः, तत्र पुलाकः कषायकुशीलाद्धीनो वास्यादविशुद्धसंयमस्थानवृत्तित्वात्तुल्यो वा स्यात् समानसंयमस्थानवृत्तित्वाद्, अधिको वास्याच्छुद्धतरसंयमस्थानवृत्तित्वात्, यतः पुलाकस्य कषायकुशीलस्य च सर्वजघन्यानि संयमस्थानान्यधः, ततस्तौ युगपदसङ्खयेयानि गच्छतस्तुल्याध्यवसानत्वात्, ततः पुलाको व्यवच्छिद्यते हीनपरिणामत्वात्, व्यवच्छिन्ने च पुलाके कषायकुशील एकक एवासनायेयानि संयमस्थानानि गच्छति शुभतरपरिणामत्वात्, ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसङ्ख्येयानि संयमस्थानानि गच्छन्ति, ततश्च बकुशो व्यवच्छिद्यते, प्रतिसेवनाकुशीलकषायकुशीलावसङ्खयेयानि संयमस्थानानि गच्छतस्ततश्च प्रतिसेवनाकुशीलो व्यवच्छिद्यते, कषायकुशीलस्त्वसङ्खयेयानि संयमस्थानानि गच्छति, ततः सोऽपि व्यवच्छिद्यते, ततो निर्ग्रन्थस्नातकावेकं संयमस्थानं प्राप्नुत इति / नियंठस्स जहा बउसस्स त्ति पुलाको निर्ग्रन्थादनन्तगुणहीन इत्यर्थः / 74 // चिन्तितः पुलाकोऽवशेषैः सह, अथ बकुशश्चिन्त्यते बउसे ण मित्यादि, बकुशः पुलाकादनन्तगुणाभ्यधिक एव विशुद्धतरपरिणामत्वात्, बकुशात्तु हीनादिर्विचित्रपरिणामत्वात्, प्रतिसेवाकषायकुशीलाभ्यामपि हीनादिरेव, निर्ग्रन्थस्नातकाभ्यां तु हीन एवेति, बउसवत्तव्वया भाणियव्व त्ति प्रतिसेवाकुशीलस्तथा वाच्यो यथा बकुश इत्यर्थः / / 78 / / कषायकुशीलोऽपि बकुशवद्वाच्यः, केवलं पुलाकाकुशोऽभ्यधिक एवोक्तः सकषायस्तु षट्स्थानपतितोवाच्यो हीनादिरित्यर्थः, तत्परिणामस्य पुलाकापेक्षया हीनसमाधिकस्वभावत्वादिति // 79 // अथ पर्यवाधिकारात्तेषामेव जघन्यादिभेदानांपुलाकादिसम्बन्धिनामल्पत्वादि प्ररूपयन्नाह एएसि ण मित्यादि।। 82 // // 765 // योगद्वारे अयोगी वा होज्ज त्ति इहायोगी शैलेशीकरणे // 83 / / उपयोगद्वारं तु सुगमत्वान्न लिखितम् / / 766-767 // // 1499 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy