________________ श्रीभगवत्यङ्ग श्रीअभयः वृत्तियुतम् भाग-३ // 1497 // कषायाः P पुलागस्से त्यादि, चरित्तपज्जव त्ति चारित्रस्य सर्वविरतिरूपपरिणामस्य, पर्यवा भेदाश्चारित्रपर्यवास्ते च बुद्धिकृता 25 शतके अविभागपलिच्छेदा विषयकृता वा // 72 / / सट्ठाणसन्निगासेणं ति स्वमात्मीयं सजातीयं स्थानं पर्यवाणामाश्रयः, स्वस्थान उद्देशकः६ सूत्रम् पुलाकादेः पुलाकादिरेव तस्य संनिकर्षः संयोजनं स्वस्थानसंनिकर्षस्तेन, किं? हीणे त्ति विशुद्धसंयमस्थानसम्बन्धित्वेन 765-768 विशुद्धतरपर्यवापेक्षयाऽविशुद्धतरसंयमस्थानसम्बन्धित्वेनाविशुद्धतराः पर्यवा हीनास्तद्योगात्साधुरपि हीनः तुल्ले त्ति न पुलाकादेः पर्यवयोगतुल्यशुद्धिकपर्यवयोगात्तुल्यः अब्भहिय त्ति विशुद्धतरपर्यवयोगादभ्यधिकः, सिय हीणे त्ति अशुद्धसंयमस्थानवर्त्तित्वात् सियल तुल्ले त्ति एकसंयमस्थानवर्त्तित्वात् सिय अब्भहिए त्ति विशुद्धतरसंयमस्थानवर्त्तित्वात्, अणंतभागहीणे त्ति किलासद्भावस्थापनया पुलाकस्योत्कृष्टसंयमस्थानपर्यवाग्रं दश सहस्राणि 10000, तस्य सर्वजीवानन्तकेन शतपरिमाणतया कल्पितेन भागे हृते शतं लब्धं 100, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राणि नवशताधिकानि 9900, पूर्वभागलब्धं शतं तत्र प्रक्षिप्त जातानि दश सहस्राणि, ततोऽसौ सर्वजीवानन्तकभागहारलब्धेन शतेन हीनमित्यनन्तभागहीनः, असंखेज्जभागहीणे व त्ति पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य 10000 लोकाकाशप्रदेशपरिमाणेनासङ्खयेयकेन कल्पनया पञ्चाशत्प्रमाणेन भागे हृते लब्धं द्विशती, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राण्यष्टौ च शतानि 9800, पूर्वभागलब्धा च द्विशती तत्र प्रक्षिप्ता, जातानि दशसहस्राणि, ततोऽसौ लोकाकशप्रदेशपरिमाणासङ्खयेयकभागहारलब्धेन शतद्वयेन हीन इत्यसङ्खयेयभागहीनः, संखेज्जभागहीणेवत्ति पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य 10000 उत्कृष्टसङ्खयेयकेन कल्पनया दशकपरिमाणेन भागे हृते लब्धं सहस्रम्, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राणि 9000 पूर्वभागलब्धं च सहस्रं तत्र प्रक्षिप्तं जातानि दशसहस्राणि, ततोऽसावुत्कृष्टसङ्खयेयकभागहारलब्धेन सहस्रेण हीनः, संखेज्जगुणहीणे वत्ति किलैकस्य पुलाकस्य // 1497 //