SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1119 // इह चापीति सम्भावनार्थः, उग्गविसं ति दुर्जरविषं चंडविसं ति दष्टकनरकायस्य झगिति व्यापकविषं घोरविसं ति परम्परया। 15 शतके पुरुषसहस्रस्यापि हननसमर्थविषं महाविषं ति जम्बूद्वीपप्रमाणस्यापि देहस्य व्यापनसमर्थविषं अइकायमहाकायं ति कायान् सूत्रम् 547 गोशालकशते शेषाहीनामतिक्रान्तोऽतिकायोऽत एव महाकायस्ततः कर्मधारयः, अथवाऽतिकायानांमध्ये महाकायोऽतिकायमहाकायो- आनन्दाय ऽतस्तम्, मसिमूसाकालग त्ति मषी कज्जलम्, मूषाचसुवर्णादितापनभाजनविशेषः, ते इव कालको यःस तथा तंनयणविसरोसपुत्रं / गोशालोक्तो वणिग्दृष्टान्तः ति नयनविषेण दृष्टिविषेण रोषेण च पूर्णो यः स तथा तं अंजयपुंजनिगरप्पगासं ति अञ्जनपुञ्जानां निकरस्येव प्रकाशो सूत्रम् 548 दीप्तिर्यस्य स तथा तम्, पूर्व कालवर्णत्वमुक्तमिह तु दीप्तिरिति न पुनरुक्ततेति, रत्तच्छं ति रक्ताक्षं जमलजुयलचंचलचलंतजीह तेजः शक्तिः नोदनानिषेधः ति जमलं सहवर्ति युगलं द्वयं चञ्चलं यथा भवत्येवं चलन्त्योः - अतिचपलयोर्जिह्वयोर्यस्य स तथा तम्, प्राकृतत्वाच्चैवं सूत्रम् 549 समासः, धरणितलवेणिभूयं धरणीतलस्य वेणीभूतो वनिताशिरसः केशबन्धविशेष इव यः कृष्णत्वदीर्धत्वश्लक्ष्ण गोशालकशते वणिग्दृष्टान्तादि पश्चाद्भागत्वादिसाधर्म्यात्स तथा तं उक्कड-फुड-कुडिल-जड्डल-कक्खड-वियड-फडाडोवकरणदच्छं ति उत्कटो बलवताऽन्येना| ध्वंसनीयत्वात्, स्फुटो व्यक्तः प्रयत्नविहितत्वात्, कुटिलो वक्रस्तत्स्वरूपत्वात्, जटिलः स्कन्धदेशे केशरिणामिवाहीनां केसरसद्भावात्, कर्कशो निष्ठुरो बलवत्त्वात्, विकटो विस्तीर्णो यः स्फटाटोपः फणासंरम्भस्तत्करणे दक्षो यः स तथा तं लोहागरधम्ममाणधमधमेंतघोसं ति लोहस्येवाकरे ध्मायमानस्य- अग्निना ताप्यमानस्य धमधमायमानो धमधमेतिवर्णव्यक्तिमिवोत्पादयन्, घोषः शब्दो यस्य स तथा तम्, अणागलियचंडतिव्वरोसं ति अनिर्गलितोऽनिवारितोऽनाकलितो नाकालता // 1119 / / वाऽप्रमेयश्चण्डः तीव्रो रोषो यस्य स तथा तम्, समुहियतुरियचवलं धमंतं ति शुनो मुखं श्वमुखं तस्येवाचरणं श्वमुखिका कौलेयकस्येव भषणं तां त्वरितं च चपलमतिचटुलतया धमन्तं शब्दं कुर्वन्तमित्यर्थः सरसरसरसरस्स त्ति सर्पगतेरनुकरणं
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy