SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1475 // 25 शतके उद्देशक:४ सूत्रम् 744-745 परमाण्वादीनां सैजत्वादि धर्मादिमध्यप्रदेशाः भूत्वा पुनस्तिष्ठति // 95 / / दुपएसियस्से त्यादि, उक्कोसेणं अणंतं कालं त्ति, कथं?, द्विप्रदेशिकः संश्चलितस्ततोऽनन्तैः पुद्गलैः सह कालभेदेन सम्बन्धं कुर्वन्ननन्तेन कालेन पुनस्तेनैव परमाणुना सह सम्बन्ध प्रतिपद्य पुनश्चलतीत्येवमिति // 96 // सैजादीनामेवाल्पबहुत्वमाह एएसि ण मित्यादि, निरेया असंखेजगुण त्ति स्थितिक्रियाया औत्सर्गिकत्वाद्बहुत्वमिति, अनन्तप्रदेशिकेषु सैजा अनन्तगुणा वस्तुस्वभावात् / / 98 / / एतदेव द्रव्यार्थप्रदेशार्थोभयार्निरूपयन्नाह एएसि ण मित्यादि, तत्र द्रव्यार्थतायां सैजत्वनिरेजत्वाभ्यामष्टौ पदानि, एवं प्रदेशार्थतायामपि, उभयार्थतायां तु चतुर्दश सैजपक्षे निरेजपक्षेच परमाणुषु द्रव्यार्थप्रदेशार्थपदयोर्द्रव्यार्थाप्रदेशार्थतेत्येवमेकीकरणेनाभिलापात्, अथ पएसट्ठयाए एवं चेव इत्यत्रातिदेशे यो विशेषोऽसावुच्यते नवरं परमाण्वि त्यादि, परमाणुपदे प्रदेशार्थतायाः स्थानेऽप्रदेशार्थतयेति वाच्यम्, अप्रदेशार्थत्वात्परमाणूनाम्, तथा द्रव्यार्थतासूत्रे सङ्ख्यातप्रदेशिका निरेजा निरेजपरमाणुभ्यः सङ्ख्यातगुणा उक्ताः प्रदेशार्थतासूत्रेतु ते तेभ्योऽसङ्खयेयगुणा वाच्याः, यतो निरेजपरमाणुभ्यो द्रव्यार्थतया निरेजसङ्ख्यातप्रदेशिकाः सङ्ख्यातगुणा भवन्ति, तेषु च मध्ये बहूनामुत्कृष्टसङ्घयातकप्रमाणप्रदेशत्वान्निरजपरमाणुभ्यस्ते प्रदेशतोऽसङ्खयेयगुणा भवन्ति उत्कृष्टसङ्ख्यातकस्योपर्येकप्रदेशप्रक्षेपेऽप्यसङ्ख्यातकस्य भावादिति ॥१००॥अथ परमाण्वादीनेव सैजत्वादिना निरूपयन्नाह परमाण्वि त्यादि, इह सर्वेषामल्पबहुत्वाधिकारे द्रव्यार्थचिन्तायां परमाणुपदस्य सर्वैजत्वनिरेजत्वविशेषणात् सङ्खयेयादीनांतु त्रयाणां प्रत्येकं देशैजसर्वैजनिरेजत्वैविशेषणादेकादश पदानि भवन्ति, एवं प्रदेशार्थतायामपि, उभयार्थतायां चैतान्येव विंशतिः, सर्वैजपक्षे निरेजपक्षे च परमाणुषु द्रव्यार्थप्रदेशार्थपदयोर्द्रव्यार्थाप्रदेशार्थतेत्येवमेकीकरणेनाभिलापादिति / / 101 // // 744 // अनन्तरं पुद्गलास्तिकायः प्रदेशतश्चिन्तितः, अथान्यानप्यस्तिकायान् प्रदेशत एव चिन्तयन्नाह कइणं भंते! इत्यादि, अट्ठ धम्मत्थिकायस्स मज्झपएस त्ति, 38 // 1475 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy