________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1474 // 25 शतके उद्देशकः 4 सूत्रम् 744-745 परमाण्वादीनां सैजत्वादि धर्मादिमध्यप्रदेशा: मज्झपएसा कतिसु आगासपएसेसु ओगाहंति?, गोयमा! जहन्नेणं एक्वंसि वा दोहिं वा तीहिं वा चउहि वा पंचहिं वा छहिं वा उकोसेणं अट्ठसुनो चेवणं सत्तसु / सेवं भंते रत्ति // सूत्रम् ७४५॥२५शते 4 उद्देशकः॥ परमाण्वि त्यादि, सेए त्ति चलः, सैजत्वं चोत्कर्षतोऽप्यावलिकाअसङ्खयेयभागमात्रमेव, निरेजताया औत्सर्गिकत्वात्, अत एव निरेजत्वमुत्कर्षतोऽसङ्घयेयं कालमुक्तमिति, निरेए त्ति निश्चलः॥ 88 // बहुत्वसूत्रे सव्वद्धं त्ति सह्यद्धां सर्वकालं परमाणवः सैजाः सन्ति, नहि कश्चित्स समयोऽस्ति कालत्रयेऽपि यत्र परमाणव: सर्व एव न चलन्तीत्यर्थः, एवं निरेजा अपि सर्वाद्धामिति // 92 // अथ परमाण्वादीनां सैजत्वाद्यन्तरमाह परमाण्वि त्यादि, सट्ठाणंतरं पडुच्च त्ति स्वस्थानं परमाणोः परमाणुभाव एव तत्र वर्त्तमानस्य यदन्तरं चलनस्य व्यवधानं निश्चलत्वभवनलक्षणं तत्स्वस्थानान्तरं तत्प्रतीत्य जहन्नेणं एक समयं ति निश्चलताजघन्यकाललक्षणं उक्कोसेणं असंखेनं कालं ति निश्चलताया एवोत्कृष्टकाललक्षणम्, तत्र जघन्यतोऽन्तरं परमाणुरेकं समयं चलनादुपरम्य पुनश्चलतीत्येवम्, उत्कर्षतश्च स एवासङ्खयेयं कालं क्वचित्स्थिरो भूत्वा पुनश्चलतीत्येवं. दृश्यमिति, परट्ठाणंतरं पडुच्चत्ति परमाणोर्यत्परस्थाने व्यणुकादावन्तर्भूतस्यान्तरम्, चलनव्यवधानं तत्परस्थानान्तरंतत्प्रतीत्येति जहन्नेणं एवं समयं उक्कोसेणं असंखेज्जं कालं ति, परमाणुपुद्गलो हि भ्रमन् द्विप्रदेशादिकं स्कन्धमनुप्रविश्य जघन्यतस्तेन सहैकं ! समयं स्थित्वा पुनर्भ्राम्यति, उत्कर्षतस्त्वसङ्खयेयं कालं द्विप्रदेशादितया स्थित्वा पुनरेकतया भ्राम्यतीति // 94 // निरेयस्से त्यादि, निश्चल: सन् जघन्यतः समयमेकं परिभ्रम्य पुनर्निश्चलस्तिष्ठति, उत्कर्षतस्तु निश्चलः सन्नावलिकाया असङ्खयेयं भाग चलनोत्कृष्टकालरूपं परिभ्रम्य पुनर्निश्चल एव भवतीति स्वस्थानान्तरमुक्तम्, परस्थानान्तरं तु निश्चलः सन्ततः स्वस्थानाच्चलितो जघन्यतो द्विप्रदेशादौ स्कन्ध एकं समयं स्थित्वा पुनर्निश्चल एव तिष्ठति, उत्कर्षतस्त्वसङ्खयेयं कालं तेन सह स्थित्वा पृथग् // 1474 //