________________ श्रीभगवत्यङ्ग। श्रीअभय वृत्तियुतम् भाग-३ // 1454 // 25 शतके उद्देशक:४ सूत्रम् 734 कृतयुग्मादि अणोगाढा जहेव धम्मत्थिकाए एवं जाव अहेसत्तमा, सोहम्मे एवं चेव, एवं जावईसिपब्भारा पुढवी॥सूत्रम् 734 // कति ण मित्यादि, जुम्म त्ति सज्ञाशब्दत्वाद्राशिविशेषाः॥१॥ नेरइयाणं भंते! कइ जुम्मा? इत्यादौ अट्ठो तहेव त्तिस चार्थः 'जेणं नेरइया चउक्कएणं अवहारेणं 2 अवहीरमाणा 2 चउपज्जवसिया ते णं नेरइया कडजुम्मे'त्यादि इति // 2 // वनस्पतिकायिकसूत्रे उववायं पडुच्चत्ति, यद्यपि वनस्पतिकायिका अनन्तत्वेन स्वभावात् कृतयुग्मा एव प्राप्नुवन्ति तथाऽपिगत्यन्तरेभ्य एकादिजीवानां तत्रोत्पादमङ्गीकृत्य तेषां चतूरूपत्वमयोगपद्येन भवतीत्युच्यते, उद्वर्त्तनामप्यङ्गीकृत्य स्यादेतत् केवलं सेह न विवक्षितेति // 3 // अथ कृतयुग्मादिभिरेव राशिभिर्द्रव्याणां प्ररूपणायेदमाह कतिविहा णं भंते! सव्वदव्वे त्यादि, तत्र कतिविधानि' कतिस्वभावानि कतीत्यर्थः॥ ४॥धम्मत्थिकाए ण मित्यादि कलियोगे त्ति एकत्वाद्धर्मास्तिकायस्य चतुष्कापहाराभावेनैकस्यैवावस्थानात्कल्योज एवासाविति, जीवत्थी त्यादि, जीवद्रव्याणामवस्थितानन्तत्वात्कृतयुग्मतैव, पोग्गलत्थिकाए इत्यादि, पुद्गलास्तिकायस्यानन्तभेदत्वेऽपि सङ्घातभेदभाजनत्वाच्चातुर्विध्यमध्येयम्, अद्धासमयानां त्वतीतानागतानामवस्थितानन्तत्वात्कृतयुग्मत्वमत एवाह अद्धासमए जहा जीवत्थिकाए त्ति॥ 5-7 // उक्ता द्रव्यार्थता, अथ प्रदेशार्थता तेषामेवोच्यते धम्मत्थी त्यादि, सर्वाण्यपि द्रव्याणि कृतयुग्मानि प्रदेशार्थतया। अवस्थितासङ्ख्यातप्रदेशत्वादवस्थितानन्तप्रदेशत्वाच्चेति // 8 // अथैतेषामेवाल्पबहुत्वमुच्यते एएसि ण मित्यादि, जहा बहुवत्तव्वयाए त्ति यथा प्रज्ञापनायास्तृतीयपदे, तच्चैवमर्थतः- धर्मास्तिकायादयस्त्रयो द्रव्यार्थतया तुल्याएकैकद्रव्यरूपत्वात्, तदन्यापेक्षया चाल्पे, जीवास्तिकायस्ततोऽनन्तगुणो जीवद्रव्याणामनन्तत्वात्, एवं पुद्गलास्तिकायाद्धासमयाः, प्रदेशार्थचिन्तायां त्वाधौ प्रत्येकमसङ्खयेयप्रदेशत्वेन तुल्यौ तदन्येभ्यः स्तोकौ च, जीवपुद्गलाद्धासमयाकाशास्तिकायास्तुक्रमेणानन्तगुणा इत्यादि॥९॥अथ द्रव्याण्येव क्षेत्रापेक्षया 1454 //