________________ श्रीअभय वृत्तियुतम् भाग-३ | // 1451 // 25 शतके उद्देशकः 3 सूत्रम् 729-733 आकाशश्रेणिगतिश्रेणिगणिपिटकाल्प बहुत्वानि द्रव्याणि विशेषाधिकानीति, कथं?, अत्रोच्यते, यस्मात्सर्वे समयाः प्रत्येकं द्रव्याणि शेषाणि चजीवपुद्गलधर्मास्तिकायादीनि तेष्वेव क्षिप्तानीत्यतः केवलेभ्यः समयेभ्यः सकाशात् समस्तद्रव्याणि विशेषाधिकानि भवन्ति न सङ्ख्यातगुणादीनि, समयद्रव्यापेक्षया जीवादिद्रव्याणामल्पतरत्वादिति, उक्तश्च एत्तो समएहिंतो होंति विसेसाहियाई दव्वाइं। जं भेया सव्वेच्चिय समया दव्वाइं पत्तेयं ॥१॥सेसाइंजीवपोग्गलधम्माधम्मंबराइं छूडाइं। दव्वट्ठाए समएसु तेण दव्वा विसेसहिया॥२॥ नन्वद्धासमयानां कस्माद्रव्यत्वमेवेष्यते? समयस्कन्धापेक्षया प्रदेशार्थत्वस्यापि तेषां युज्यमानत्वात्, तथाहि- यथा स्कन्धो द्रव्यं सिद्धं स्कन्धावयवा अपि यथा प्रदेशाः सिद्धा एवं समयस्कन्धवर्तिनः समया भवन्ति प्रदेशाश्च द्रव्यं चेति, अत्रोच्यते, परमाणूनामन्योऽन्यसव्यपेक्षत्वेन स्कन्धत्वं युक्तम्, अद्धासमयानां पुनरन्योऽन्यापेक्षिता नास्ति, यतः कालसमयाः प्रत्येकत्वे च काल्पनिकस्कन्धाभावे च वर्तमानाः प्रत्येकवृत्तय एव तत्स्वभावत्वात् तस्मात्तेऽन्योऽन्यनिरपेक्षा अन्योऽन्यनिरपेक्षत्वाचन ते वास्तवस्कन्धनिष्पादकास्ततश्च नैषां प्रदेशार्थतेति, उक्तं चात्र आहऽद्धासमयाणं किं पुण दव्वट्ठए व नियमेणं / तेसि पएसट्ठाविह जुज्जइ खंधं समासज्ज॥१॥ (ग्रन्थाग्रं 17000) सिद्धं खंधो दव्वं तदवयवाविय जहा पएसत्ति / इय तव्वत्ती समया होंति पएसा य दव्वं च॥२॥ भन्नइ परमाणूणं अन्नोन्नमवेक्ख खंधया सिद्धा। अद्धासमयाणं पुण अन्नोन्नावेक्खया नत्थि॥३॥ अद्धासमया जम्हा पत्तेयत्ते या भेदा यत्सर्वेऽपि समयाः प्रत्येकं द्रव्याणीतः समयेभ्यो द्रव्याणि विशेषाधिकानि भवन्ति // 1 // शेषाणि जीवपुद्गलधर्माधर्माकाशानि प्रक्षिप्तानि द्रव्यार्थतया 8 समयेषु तेन द्रव्याणि विशेषाधिकानि // 2 / / 0 आहाद्धासमयानां किं पुनर्नियमेन द्रव्यार्थतैव तेषां स्कन्धं समाश्रित्य प्रदेशार्थताऽपि युज्यते॥१॥ स्कन्धो द्रव्यं सिद्ध तदवयवा अपि च यथा प्रदेशा इति / एवं तद्वर्तिनः समयाः प्रदेशा भवन्ति द्रव्यं च ॥२॥भण्यते परमाणूनामन्योऽन्यापेक्षया स्कन्धता सिद्धा। अद्धासमयानां पुनरन्योऽन्यापेक्षता नास्ति // 3 // अद्धासमया यस्मात्प्रत्येकत्वे. // 1451 //