________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1450 // 25 शतके उद्देशक:३ सूत्रम् 729-733 आकाशश्रेणिगतिश्रेणिगणिपिटकाल्पबहुत्वानि समाना औपचारिकसमयसङ्ख्या लभ्यते, एतद्भावना चैवं-किलासद्भावकल्पनया लक्षं लोकद्रव्यप्रदेशपर्यवाणां तस्य समयक्षेत्रद्रव्यप्रदेशपर्यवराशिना कल्पनया सहस्रमानेन भागे हृते शतं लब्धम्, ततश्च किल तात्त्विकसमयशते गते लोकद्रव्यप्रदेशपर्यवसङ्ख्यातुल्या समयक्षेत्रद्रव्यप्रदेशपर्यवरूपसमयसङ्ख्या लभ्यते, समयक्षेत्रापेक्षयाऽसङ्ख्यातगुणलोकस्य कल्पनया शतगुणत्वात्, तथाऽन्येष्वपि तावत्सुतात्त्विकसमयेषु गतेषु तावन्त एवौपचारिकसमया भवन्तीति, एवमसङ्ख्यातेषु कल्पनया शतमानेषुतात्त्विकसमयेषुपौनः पुन्येन गतेष्वनन्ततमायांकल्पनयासहस्रतमायां वेलायांगता भवन्ति तात्त्विकसमया लोकद्रव्यप्रदेशपर्यवमात्राः कल्पनया लक्षप्रमाणाः, एवं चैकै कस्मिंस्तात्त्विकसमयेऽनन्तानामौपचारिकसमयानां भावात्सर्वलोकद्रव्यप्रदेशपर्यवराशेरपि समया अनन्तगुणाः प्राप्नुवन्ति किं पुनः पुगलेभ्य इति, यदाह जसव्वलोगदव्वप्पएसपज्जवगणस्स भइयस्स। लब्भइ समयक्खेत्तप्पएसपज्जायपिंडेण ॥१॥एवइसमएहिं गएहिं लोगपज्जवसमा समयसंखा। लब्भइ अन्नेहिंपि य तत्तियमेत्तेहिं तावइया॥२॥ एवमसंखेजेहिं समएहिं गएहिं तो गया होंति। समयाओ लोगदव्वप्पएसपज्जायमेत्ताओ॥ 3 // इय सव्वलोगपज्जवरासीओवि समया अणंतगुणा। पावंति गणेहंता किं पुण ता पोग्गलेहिंतो?॥ 4 // अन्यस्तु प्रेरयति- उत्कृष्टतोऽपि षण्मासमात्रमेव सिद्धिगतेरन्तरं भवति तेन च सेत्स्यद्भयः सिद्धेभ्योऽपि च जीवेभ्योऽसङ्ख्यातगुणा एव समया भवन्ति कथं पुनः सर्वजीवेभ्योऽनन्तगुणा भविष्यन्तीति, इहाप्यौपचारिकसमयापेक्षया समयानामनन्तगुणत्वं वाच्यमिति, अथ समयेभ्यो / यत्समयक्षेत्रप्रदेशपर्यायपिण्डेन भक्तस्य सर्वलोकद्रव्यप्रदेशपर्यवगणस्य लभ्यते // 1 // एतावत्सु समयेषु गतेषु लोकपर्यायसमा समयसङ्ख्या लभ्यते अन्यैरपि तावन्मात्रैस्तावती / / 2 / / एवमसङ्ख्येयेषु समयेषु गतेषु ते लोकद्रव्यप्रदेशपर्यायप्रमाणाः समया गता भवन्ति // 3 // एवं सर्वलोकपर्यवराशेरपि समया अनन्तगुणा गण्यमाना भवन्ति किं पुनस्ते पुद्गलेभ्यः? // 4 // // 1450 //