SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ 10808088 श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1448 // 25 शतके उद्देशक:३ सूत्रम् 729-733 आकाशश्रेणिगतिश्रेणिगणिपिटकाल्पबहुत्वानि पुद्गलेभ्यो जीवाः, यदाह ज पोग्गलावबद्धा जीवा पाएण होंति तो थोवा / जीवेहिं विरहिया अविरहिया व पुण पोग्गला संति // 2 // जीवेभ्योऽनन्तगुणाः पुद्गलाः, कथं?, यत्तैजसादिशरीरं येन जीवेन परिगृहीतं तत्ततो जीवात्पुद्गलपरिमाण-माश्रित्यानन्तगुणं भवति,तथा तैजसशरीरात्प्रदेशतोऽनन्तगुणं कार्मणम्, एवं चैते जीवप्रतिबद्धे अनन्तगुणे, जीवविमुक्तेच ते ताभ्यामनन्तगुणे भवतः,शेषशरीरचिन्ता त्विह न कृता, यस्मात्तानि मुक्तान्यपिस्वस्वस्थाने तयोरनन्तभागे वर्तन्ते, तदेव-मिह तैजसशरीरपुद्गला अपिजीवेभ्योऽनन्तगुणाः किं पुनः कार्मणादिपुद्गलराशिसहिताः, तथा पञ्चदशविधप्रयोगपरिणताः पुद्गलाः स्तोकास्तेभ्यो मिश्रपरिणताः अनन्तगुणास्तेभ्योऽपि विस्रसापरिणता अनन्तगुणास्त्रिविधा एव च पुद्गलाः सर्व एव भवन्ति, जीवाश्च सर्वेऽपि प्रयोगपरिणतपुद्गलानां प्रतनुकेऽनन्तभागे वर्तन्ते, यस्मादेवंतस्माजीवेभ्यः सकाशात्पुद्गला बहुभिरनन्तानन्तकैर्गुणिताः सिद्धा इति, आहच जजेण परिग्गहियं तेयादि जिएण देहमेक्केक्कं / तत्तो तमणंतगुणं पोग्गलपरिणामओ होइ॥१॥ तेयाओ पुण कम्मगमणंतगुणियं जओ विणिद्दिढ़। एवं ता अवबद्धाइं तेयगकम्माइं जीवहिं॥२॥ इत्तोऽनंतगुणाई तेसिं चिय जाणि होति मुक्काई। इह पुण थोवत्ताओ अग्गहणं सेसदेहाणं॥ 3 // जंतेसिं मुक्काइपि होंति सट्ठाणऽणंतभागंमि। तेणं तदग्गहणमिहं बद्धाबद्धाण दोण्हपि॥ 4 // इह पुण तेयसरीरगबद्धच्चिय पोग्गला अणंतगुणा। जीवेहितो किं पुण सहिता अवसेसरासीहिं?॥५॥ थोवा भणिया सुत्ते पन्नरसविहप्पओगपाओग्गा। O यत्पुद्गलावबद्धाः प्रायेण जीवास्ततः स्तोका भवन्ति जीवैर्विरहिता अविरहिताश्च पुनः पुद्गलाः सन्ति॥२॥ जीवेन येन यत्तैजसादिशरीरमेकैकं परिगृहीत तदनन्तगुणं ततो भवति पुद्गलपरिणामात्॥१॥ तैजसात्पुनः कार्मणमनन्तगुणितं यतो विनिर्दिष्टम् / एवं तावज्जीवैर्बद्धानि तैजसकार्मणानि / / 2 / / इतोऽनन्तगुणानि / तेभ्यश्चैव यानि मुक्तानि भवन्ति। शेषदेहानां पुनरिहाग्रहणं स्तोकत्वात् // 3 // यत्तानि मुक्तान्यपि स्वस्थानानन्तभागे भवन्ति। तेन तदग्रहणमिह द्वयोरपि बद्धाबद्धयोः॥ 4 // इह पुनस्तैजसशरीरबद्धा एव पुद्गला अनन्तगुणाः / जीवेभ्योऽवशेषराशिभिः सहिताः किं पुनः? // 5 // 0 सूत्रे पञ्चदशविधप्रयोगप्रायोग्याः स्तोका भणिताः। // 1448 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy