________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1443 // आकाश सर्वग्रहणाच्चता अनादिका अपर्यवसिताश्चेत्येक एव भङ्गकोऽनुमन्यते शेषभङ्गकत्रयस्य तु प्रतिषेधः॥४९॥ लोगागाससेढीओ 25 शतके ण मित्यादौ तु 'साइयाओ सपज्जवसियाओ'इत्येको भङ्गकः सर्वश्रेणीभेदेष्वनुमन्यते, शेषाणां तु निषेधः, लोकाकाशस्य उद्देशकः३ सूत्रम् परिमितत्वादिति // 50 / / अलोगागाससेढी त्यादौ सिय साईयाओ सपज्जवसियाओ त्ति प्रथमो भङ्गकः क्षुल्लकप्रतरप्रत्यासत्तौ 729-733 ऊर्ध्वायतश्रेणीराश्रित्यावसेयः, सिय साइयाओ अपज्जवसियाओ त्ति द्वितीयः, स च लोकान्तादवधेरारभ्य सर्वतोऽवसेयः, सिय श्रेणिगतिअणाईयाओसपज्जवसियाओ त्ति तृतीयः,सच लोकान्तसन्निधौ श्रेणीनामन्तस्य विवक्षणात्, सिय अणाईयाओअपज्जवसियाओ श्रेणिगणित्ति चतुर्थः, स च लोकं परिहत्य याः श्रेणयस्तदपेक्षयेति / पाईणपडीणाययाओ इत्यादौ नो साईयाओ सपज्जवसियाओ तिल पिटकाल्प बहुत्वानि अलोके तिर्यक्श्रेणीनांसादित्वेऽपि सपर्यवसितत्वस्याभावान्न प्रथमो भङ्गः,शेषास्तु त्रयः सम्भवन्त्यत एवाह सिय साइयाओ इत्यादि॥५१॥ सेढीओणं भंते! दव्वट्ठयाए किं कडजुम्माओ? इत्यादि प्रश्नः, उत्तरंतु कडजुम्माओ त्ति, कथं?, वस्तुस्वभावात्, एवं सर्वा अपि॥५२॥ यः पुनर्लोकालोकश्रेणीषु प्रदेशार्थतया विशेषोऽसावुच्यते- तत्र लोगागाससेढीओ णं भंते! पएसट्ठयाए इत्यादौ स्यात् कृतयुग्मा अपि स्याद्वापरयुग्मा इत्येतदेवं भावनीयं-रुचकार्डादारभ्य यत्पूर्वं दक्षिणं वा लोकार्द्ध तदितरेण तुल्यमतः पूर्वापरश्रेणयो दक्षिणोत्तरश्रेणयश्च समसङ्ख्यप्रदेशाः, ताश्च काश्चित् कृतयुग्माः काश्चिवापरयुग्माश्च भवन्ति न पुनस्त्र्योजप्रदेशाः कल्योजप्रदेशावा, तथाहि-असद्भावस्थापनया दक्षिणपूर्वाद्रुचकप्रदेशात्पूर्वतोयल्लोकश्रेण्यर्द्ध तत्प्रदेशशतमान भवति, यच्चापरदक्षिणाद्रुचकप्रदेशादपरतो लोकश्रेण्यर्द्ध तदपि प्रदेशशतमानम्, ततश्च शतद्वयस्य चतुष्कापहारे पूर्वापरायतलोकश्रेण्याः कृतयुग्मता भवति,तथा दक्षिणपूर्वाद्रुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्य पूर्वतो यल्लोकश्रेण्यर्द्ध तन्नवनवतिप्रदेशमानम्, यच्चापरदक्षिणायताद्रुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्यापरतो लोकश्रेण्यर्द्धं तदपि च // 1443 //