SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1437 // 25 शतके उद्देशकः३ सूत्रम् 727 संस्थानप्रदेशादिकृतयुग्मादि sपीति // 27 // वट्टे ण मित्यादि, सिय कडजुम्मपएसोगाढे त्ति यत्प्रतरवृत्तं द्वादशप्रदेशिकं यच्च घनवृत्तं द्वात्रिंशत्प्रदेशिकमुक्तं तच्चतुष्कापहारे चतुरग्रत्वात्कृतयुग्मप्रदेशावगाढं सियतेओयपएसोगाढे त्ति यच्च घनवृत्तं सप्तप्रदेशिकमुक्तं तत्त्र्यग्रत्वात्त्र्योजः प्रदेशावगाढं सिय कलिओयपएसोगाढे त्ति यत्प्रतरवृत्तं पञ्चप्रदेशिकमुक्तं तदेकाग्रत्वात्कल्योजप्रदेशावगाढमिति // 28 // तंसे Bण मित्यादि, सिय कडजुम्मपएसोगाढे त्ति यद् घनत्र्यनं चतुष्प्रदेशिकं तत्कृतयुग्मप्रदेशावगाढं सिय तेओगपएसोगाढे त्ति यत् प्रतरत्र्यसं त्रिप्रदेशावगाढं घनत्र्यस्रं च पञ्चत्रिंशत्प्रदेशावगाढं तत्व्यग्रत्वात्व्योजः प्रदेशावगाढम्, सिय दावरजुम्मपएसोगाढे त्ति यत्प्रतरत्र्यसंषट्प्रदेशिकमुक्तं तद्व्यग्रत्वाद्द्वापरप्रदेशावगाढमिति ॥२९॥चउरंसे ण मित्यादि, जहा वट्टे त्ति सिय कडजुम्मपएसोगाढे सिय तेओयपएसोगाढे सिय कलिओयपएसोगाढे इत्यर्थः तत्र यत् प्रतरचतुरस्रं चतुष्प्रदेशिकं घनचतुरस्रं चाष्टप्रदेशिकमुक्तं तच्चतुरग्रत्वात्कृतयुग्मप्रदेशावगाढम्, तथा यद् घनचतुरस्रं सप्तविंशतिप्रदेशिकमुक्तं तत्त्र्यग्रत्वात्त्र्योजः प्रदेशावगाढम्, तथा यत्प्रतरचतुरनं नवप्रदेशिकमुक्तं तदेकाग्रत्वात् कल्योजः प्रदेशावगाढमिति ॥३०॥आयए ण मित्यादि सिय कडजुम्मपएसोगाढे त्ति यद्घनायतंद्वादशप्रदेशिकमुक्तं तत्कृतयुग्मप्रदेशावगाढंयावत्करणात् 'सिय तेओयपएसोगाढेसियदावरजुम्मपएसोगाढे'त्ति दृश्यम्, तत्र च यच्छ्रेण्यायतंत्रिप्रदेशावगाढं यच्च प्रतरायतं पञ्चदशप्रदेशिकमुक्तंतव्यग्रत्वात्योजःप्रदेशावगाढम्, यत्पुन:श्रेण्यायतं द्विप्रदेशिकं यच्च प्रतरायतं षट्प्रदेशिकं तद् व्यंग्रत्वाद्वापरयुग्मप्रदेशावगाढम्, सिय कलिओयपएसोगाढे त्ति यद् घनायतं पञ्चचत्वारिंशत्प्रदेशिकं तदेकाग्रत्वात्कल्योजःप्रदेशावगाढमिति ॥३१॥एवमेकत्वेन प्रदेशावगाढमाश्रित्य संस्थानानि चिन्तितानि, अथ पृथक्त्वेन तानि तथैव चिन्तयन्नाह परिमंडला ण मित्यादि, ओघादेसेणवि त्ति सामान्यतः समस्तान्यपि परिमण्डलानीत्यर्थः विहाणादेसेणवि त्ति भेदत एकैकं परिमण्डलमित्यर्थः कृतयुग्मप्रदेशावगाढान्येव विंशतिचत्वारिंश // 1437 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy